Enter your Email Address to subscribe to our newsletters

पटना, १८ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः बिहारराज्ये जलौघस्थितिं प्रति चिन्तां प्रकटयन् राज्यसर्वकारेण सञ्चाल्यमानानां सहायता-रक्षणकार्याणां विषये सूचनां दत्तवान्। तेन उक्तं यत् जलौघपीडितपरिवाराणां कृते आर्थिक-सहायता, सहायताशिविराणि, सामुदायिक-पाकशालाः, चिकित्सासुविधाः च माध्यमेन सहायता प्रदीयते। राज्यसभासदस्यरूपेण तेन स्वस्य त्रैमासिकवेतनराशिः ६.३५ लक्षरूप्यकाणि मुख्यमन्त्रिणः सहायता-कोषे अंशदानरूपेण प्रदत्तानि।
शुक्रवासरे प्रसारिते वार्ताप्रकाशने नितिननवीनः उक्तवान् यत् जलौघस्थितेः निरन्तरं निरीक्षणं क्रियते तथा च प्रभावितजनानां समीपं समये आवश्यकसहायतां च प्रापयितुं सर्वकारः पूर्णतया तत्परः भूत्वा कार्यं करोति। तस्य अनुसारं राज्यसर्वकारेण जलौघपीडित-परिवाराणां कृते प्रतिपरिवारं सप्तसहस्र-रूप्यकाणाम् अनुसारम् अधुनापर्यन्तं पञ्चशतपञ्चाशत्कोटि-रूप्यकेभ्यः अधिका आर्थिकसहायता प्रदत्ता अस्ति।
भाजपाध्यक्षः उक्तवान् यत् प्रभावितक्षेत्रेषु सहायताशिविराणां, सामुदायिक-पाकशालानां, चिकित्सासुविधानां तथा पशूनां कृते तृणस्य व्यवस्थाः कृताः सन्ति। रक्षणकार्येषु एनडीआरएफ् तथा एसडीआरएफ् दलानि नियुक्तानि सन्ति। कृषकाणां सस्यहान्याः आकलनमपि क्रियते, यस्य आधारेण आवश्यकसहायतां प्रदातुं प्रक्रिया प्रचलति।
भाजपायाः राष्ट्रियाध्यक्षः उक्तवान् यत् केन्द्रसर्वकारः अपि बिहारस्य जलौघस्थितेः निरन्तरं निरीक्षणं करोति। केन्द्रीयकृषि-कृषककल्याण-ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः १६ सेप्टेम्बरदिने जलौघप्रभावितक्षेत्राणां भ्रमणं कृत्वा सहायता-रक्षणकार्याणां स्थितेः अवलोकनं कृतवान् आसीत्। तेन प्रभावितपरिवारैः सह मिलित्वा केन्द्रसर्वकारस्य पक्षतः सर्वसम्भवसहायतां प्रदातुं आश्वासनं दत्तम् आसीत्।
नितिननवीनः उक्तवान् यत् सङ्कटस्य अस्मिन् समये सर्वकारः प्रभावितजनैः सह दृढ़तया स्थितः अस्ति तथा च सहायताकार्याणि पूर्णतत्परतया अग्रे वर्धन्ते।
Hindusthan Samachar / Divya Ranjan