महाराष्ट्रे चौक-करजतरेलखण्डस्य द्वितीयरेलमार्गस्य अनुमोदनम्, ४९७ कोटिरूप्यकाणि व्ययः
नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। भारतीयरेलविभागेन महाराष्ट्रे मध्यरेल-विभागस्य चौक-करजतरेलखण्डस्य द्वितीयरेलमार्गनिर्माणपरियोजनायाः अनुमोदनं प्रदत्तम्। १०.८६ किलोमीटर्-दीर्घायाः अस्याः परियोजनायाः कृते ४९७ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। र
रेलवे


नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। भारतीयरेलविभागेन महाराष्ट्रे मध्यरेल-विभागस्य चौक-करजतरेलखण्डस्य द्वितीयरेलमार्गनिर्माणपरियोजनायाः अनुमोदनं प्रदत्तम्। १०.८६ किलोमीटर्-दीर्घायाः अस्याः परियोजनायाः कृते ४९७ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति।

रेलमन्त्रालयस्य अनुसारं चौक-करजतरेलखण्डः पनवेल-चौक-करजत-मार्गस्य भागः अस्ति तथा च यात्रिणां मालवहनस्य च कृते महत्त्वपूर्णः मार्गः मन्यते। द्वितीयरेलमार्गस्य निर्माणानन्तरं विद्यमानस्य एकलरेल-मार्गस्य क्षमता वर्धिष्यते तथा रेलयानानां सञ्चालनं अधिकं सुगमं भविष्यति।

मन्त्रालयेन उक्तं यत् रेलजालस्य क्षमता वर्धयितुं सञ्चाल्यमानेषु द्वितीयरेल-मार्गनिर्माणं, त्रितीयरेलमार्गनिर्माणं, चतुर्थरेलमार्गनिर्माणं, उड्डयनसेतुनिर्माणं, वैकल्पिकमार्गनिर्माणं च इत्यादिकार्येषु अन्तर्गतं एषा परियोजना स्वीकृता अस्ति।

परियोजनायाः पूर्णतायां अस्मिन् मार्गे प्रतिदिनं द्वयोः दिशोः पञ्च-पञ्च अतिरिक्तयात्रिकरेलयानानां सञ्चालनस्य सुविधा प्राप्स्यते। तदतिरिक्तं प्रतिवर्षं १८.३५ मिलियन-टन-परिमितस्य अतिरिक्त-मालवहनस्य क्षमता विकसिता भविष्यति। अनेन मालवाहकरेलयानानां स्थगने विलम्बे च अपि न्यूनता भविष्यति इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan