प्रधानमन्त्री शनिवासरे विंशतितमे रोजगारमेलापके ५१ सहस्राधिकेभ्यः युवकेभ्यः दास्यति नियुक्तिपत्राणि
नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे विंशतितमे रोजगारमेलापके अवसर-विविधेषु सर्वकारीयसंघटनेषु नव-नियुक्तेभ्यः ५१ सहस्राधिकेभ्यः युवकेभ्यः नियुक्तिपत्राणि वितरिष्यति। प्रधानमन्त्री मध्याह्ने १२ वादने ३० निमेषे दृश्
प्रधानमंत्री नरेन्द्र मोदी मंगलवार को मुंबई में ग्लोबल फिनटेक फेस्ट (जीएफएफ) 2026 को संबोधित करते हुए


नवदिल्ली, १८ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे विंशतितमे रोजगारमेलापके अवसर-विविधेषु सर्वकारीयसंघटनेषु नव-नियुक्तेभ्यः ५१ सहस्राधिकेभ्यः युवकेभ्यः नियुक्तिपत्राणि वितरिष्यति। प्रधानमन्त्री मध्याह्ने १२ वादने ३० निमेषे दृश्यश्रव्यसञ्चारमाध्यमेन नियुक्तिपत्राणि प्रदास्यति तथा नवनियुक्तान् अभ्यर्थिनः सम्बोधयिष्यति अपि।

प्रधानमन्त्रिकार्यालयस्य अनुसारं रोजगारमेलापकस्य आयोजनं देशस्य ४५ स्थानेषु भविष्यति। अस्मिन् अवसरे नियुक्तिं प्राप्यमाणाः युवानः केन्द्रसर्वकारस्य विभिन्नेषु मन्त्रालयेषु विभागेषु च कार्यभारं स्वीकरिष्यन्ति। एतेषु राजस्वविभागः, रेलमन्त्रालयः, गृह-मन्त्रालयः, स्वास्थ्य-कुटुम्बकल्याण-मन्त्रालयः, वित्तीयसेवाविभागः, रक्षा-मन्त्रालयः इत्यादयः विभागाः अन्तर्भवन्ति।

सर्वकारस्य अनुसारं रोजगारमेलापकः युवकेभ्यः रोजगारस्य अवसरान् प्रदातुं तथा च देशस्य विकासे तेषां अधिकसहभागितां सुनिश्चितं कर्तुं निरन्तरप्रयत्नस्य एकः भागः अस्ति।विंशतितमस्य रोजगारमेलापकस्य आयोजनेन सह विभिन्नेषु सर्वकारीय-विभागेषु संघटनेषु च अधुनापर्यन्तं प्रायः १२.७५ लक्षयुवकेभ्यः नियुक्तिपत्राणि प्रदत्तानि भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan