Enter your Email Address to subscribe to our newsletters

कोलकाता, १८ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गालस्य विद्यालयेषु, महाविद्यालयेषु विश्वविद्यालयेषु च अधुना डॉ. श्यामाप्रसादमुखर्जीणः जीवनं, योगदानं धरोहरं च पाठ्यक्रमेषु सम्मिलितं करिष्यते। एषा व्यवस्था २०२७ तमस्य शैक्षणिकसत्रात् प्रवर्तयितुं सज्जता क्रियते।
अस्य सम्बन्धे १३ अगस्तमासे मुख्यमन्त्रिण: शुभेन्दुअधिकारीणः अध्यक्षतायां श्यामाप्रसादमुखर्जीणः १२५ तम्याः जयन्त्याः आयोजनाय गठितस्य उच्चस्तरीयसमितेः सभायां निर्णयः कृतः आसीत्। राज्यस्य सूचनासांस्कृतिककार्यविभागेन शुक्रवासरे विद्यालयशिक्षाविभागाय उच्चशिक्षाविभागाय च आवश्यकानि पदक्षेपाणि स्वीकर्तुं निर्देशः प्रदत्तः। विभागेन उक्तं यत् श्यामाप्रसादमुखर्जीणः जीवनसम्बन्धिनः, योगदानसम्बन्धिनः, धरोहरसम्बन्धिनश्च विषयाः विद्यालय-महाविद्यालय-विश्वविद्यालयस्तरीयेषु पाठ्यक्रमेषु समुचितरूपेण सम्मिलिताः भवेयुः। शैक्षणिकसंस्थाभ्यः अस्मिन् विषये शीघ्रं कार्यवाहीं कृत्वा प्रतिवेदनमपि प्रेषयितुं निर्दिष्टम्।
सर्वकारेण केवलं पाठ्यक्रमपर्यन्तं सीमितं न भूत्वा विद्यालयेषु महाविद्यालयेषु च विद्यार्थिनां कृते शैक्षणिकाः जागरूकताकार्यक्रमाश्च आयोजयितुं निर्दिष्टम्। एतेषां कार्यक्रमाणां माध्यमेन नववंशं श्यामाप्रसादमुखर्जीणः जीवनस्य, तस्य विचाराणां, योगदानस्य, बङ्गालस्य इतिहासे तस्य भूमिकायाश्च परिचयं कारयितुं योजना अस्ति।
पाठ्यक्रम-सह-पाठ्यचर्यासमितेः अध्यक्षः प्रो. देबाशीषचटर्जी अवदत् यत् एतत् शैक्षणिकदृष्ट्या द्रष्टव्यम्। तेन उक्तं यत् विद्यार्थिभ्यः श्यामाप्रसादमुखर्जीणः योगदानं तस्य ऐतिहासिकमहत्त्वं च अवगन्तुं अवसरः प्राप्तव्यः, येन ते बङ्गालस्य इतिहासं समाजं विकासं च व्यापकसन्दर्भे अवगन्तुं शक्नुयुः।
राज्यसर्वकारेण राष्ट्रियपुस्तकालयाय श्यामाप्रसादमुखर्जीसम्बद्धानां पुस्तकानां, तथ्यानां, ऐतिहासिकाभिलेखानाम् अन्येषां च सामग्रीणां सङ्ग्रहणं संरक्षणं च कर्तुं निर्देशः प्रदत्तः। अस्य उद्देश्यं शोधकर्तृभ्यः, विद्यार्थिभ्यः अग्रिमवंशेभ्यश्च तस्य जीवनकार्यसम्बद्धसामग्रीणां स्थायिसङ्ग्रहस्य निर्माणम् अस्ति।
सर्वकारः संसदः अभिलेखेषु उपलब्धानां श्यामाप्रसादमुखर्जीणः भाषणानां, वादविवादानां, अन्येषां च दस्तावेजानां नियमानुसारम् आवश्यकानुमतिं प्राप्य अधिग्रहणस्य सम्भावनाः अपि अन्वेषयति। उच्चस्तरीयसमित्या श्रीलङ्का-कम्बोडिया-म्यान्मार-देशानां प्रतिष्ठित-शैक्षणिकसंस्थाभिः सह अन्ताराष्ट्रिय-शैक्षणिकसहयोगस्य सम्भावनाः अन्वेष्टुं वार्ता अपि कृता। अस्य अन्तर्गतं श्यामाप्रसादमुखर्जीणः नाम्ना शैक्षणिक-पीठस्य स्थापनां तैः सम्बद्धानां ऐतिहासिकतथ्यानां सामग्रिणां च संरक्षणं कर्तुं सम्भावना अस्ति।
अपि च राज्यस्य चिह्नितेषु विद्यालयेषु, महाविद्यालयेषु विश्वविद्यालयेषु च परिसरेषु उचितस्थाने श्यामाप्रसादमुखर्जीणः प्रतिमा, मूर्तिः अन्यं स्मारकं वा स्थापयितुं प्रस्तावः अपि प्रस्तुतः।
Hindusthan Samachar / Divya Ranjan