माताराण्याः जयघोषैः सीवानस्थानकं गुञ्जितम्, वैष्णोदेव्याः दर्शनार्थं श्रद्धालूनां समूहः प्रस्थितः।
सीवानम्, 18 सितंबर मासः(हि.स.)। माताराण्याः जयघोषैः भक्तिगीतैश्च सह शुक्रवासरे सीवानरेलस्थानकात् श्रीमातावैष्णोदेवीदर्शनसमित्याः सीवानस्य तत्त्वावधाने श्रद्धालूनां समूहः मातुर्वैष्णोदेव्याः दर्शनार्थं प्रस्थितः। स्थानकपरिसरे यात्रां प्रति श्रद्ध
दर्शनार्थियों के जत्थे को रवाना करती सांसद,विधायक एवं अन्य


सीवानम्, 18 सितंबर मासः(हि.स.)।

माताराण्याः जयघोषैः भक्तिगीतैश्च सह शुक्रवासरे सीवानरेलस्थानकात् श्रीमातावैष्णोदेवीदर्शनसमित्याः सीवानस्य तत्त्वावधाने श्रद्धालूनां समूहः मातुर्वैष्णोदेव्याः दर्शनार्थं प्रस्थितः।

स्थानकपरिसरे यात्रां प्रति श्रद्धालूनां मध्ये विशेषोत्साहः दृश्यते स्म। श्रद्धालवः माताराण्याः जयघोषान् कुर्वन्तः सुखमङ्गलमयीं यात्रां कामयन्ते स्म। स्थानके सांसदः विजयलक्ष्मीकुशवाहा, दरौन्दाविधानसभाक्षेत्रस्य विधायकः कर्णजीतसिंहः उर्फ व्याससिंहः, वरिष्ठपत्रकारः दीपकपाण्डेयः, राजासिंहमहाविद्यालयस्य प्राचार्यः डॉ. अजयकुमारपण्डितः, दयानन्दआयुर्वेदचिकित्सामहाविद्यालयस्य प्राचार्यः डॉ. सुधांशुशेखरत्रिपाठी, दक्षबीएससीनर्सिङ्गमहाविद्यालयस्य निदेशकः डॉ. जितेशकुमारसिंहः, डॉ. ऋचासिंहः भाजपादलस्य पूर्वजनपदाध्यक्षः सञ्जयपाण्डेयः इत्यादिभिः अतिथिभिः हरितध्वजं प्रदर्श्य श्रद्धालवः यात्रार्थं प्रेषिताः।

अस्मिन् अवसरे प्रजापिताब्रह्माकुमारीईश्वरीयविश्वविद्यालयस्य सीवानशाखायाः सञ्चालिका राजयोगिनी बीके सुधाभगिन्या श्रद्धालूनां तिलकचन्दनेन स्वागतं कृत्वा अङ्गवस्त्रं प्रदाय सम्मानिताः।

सांसदा विजयलक्ष्मीकुशवाहा उक्तवती यत् मातुर्वैष्णोदेव्याः यात्रा श्रद्धालूनां कृते श्रद्धायाः महत्त्वपूर्णः अवसरः अस्ति। एतादृश्यः धार्मिकयात्राः जनान् स्वसंस्कृत्या आध्यात्मिकपरम्पराभिश्च संयोजयन्त्यः सामाजिकैकतामपि सुदृढां कुर्वन्ति। तया श्रद्धालुभ्यः अनुशासनपूर्वकं सुरक्षितरूपेण यात्रां सम्पन्नं कर्तुं आग्रहः कृतः।

दरौन्दाविधानसभाक्षेत्रस्य विधायकः कर्णजीतसिंहः उर्फ व्याससिंहः उक्तवान् यत् बहुसङ्ख्याकानां श्रद्धालूनां माताराण्याः दर्शनार्थं प्रस्थानं क्षेत्रस्य धार्मिकश्रद्धां सामाजिकैकतां च प्रदर्शयति। डॉ. ऋचासिंहेन सर्वेषां श्रद्धालूनां मङ्गलमयीं सुरक्षितां च यात्रां प्रति शुभकामना प्रदत्ता। डॉ. जितेशकुमारसिंहेन उक्तं यत् धार्मिकयात्राः परस्परभ्रातृत्वं सद्भावं च सुदृढं कुर्वन्ति।

वरिष्ठपत्रकारः दीपकपाण्डेयः उक्तवान् यत् एतादृशाः आयोजनाः समाजे सकारात्मकं वातावरणं निर्मातुं जनान् परस्परं संयोजयितुं च कार्यं कुर्वन्ति। डॉ. अजयकुमारपण्डितः धार्मिकसांस्कृतिकयात्राः परम्पराणाम् अग्रे संवर्धनस्य महत्त्वपूर्णं माध्यमम् इति वर्णितवान्।

राजयोगिनी बीके सुधाभगिनी उक्तवती यत् तीर्थयात्रा केवलं धार्मिकस्थलं प्राप्तुं साधनं न, अपितु मनसः शान्त्या सकारात्मकतया आध्यात्मिकशक्त्या च संयोजनस्य अवसरः अपि अस्ति। तया श्रद्धालुभ्यः सेवायाः सहकारितायाः सद्भावस्य च भावनया यात्रां कर्तुम् आग्रहः कृतः।

अवसरे समितेः अध्यक्षः मिथिलेशकुमारसिंहः, संरक्षकः अरविन्दकुमारपाण्डेयः, सचिवः अनूपकुमारः, यात्राप्रभारी सुधीरकुमारः तथा जितेन्द्रकुमारसिंहः, बबलूकुमारसिंहः, दुर्गादेवी, मिण्टूकुमारः, अनामिकाकुमारी, प्रेमकुमारसिंहः, शम्भूनाथसिंहः, ज्योतिःकुमारी, रञ्जनासिंहः, नीतूसिंहः, अमरनाथशर्मा, सान्यासिंहः, महाराणाप्रतापसिंहः, जयनाथसिंहः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani