Enter your Email Address to subscribe to our newsletters

औरैया, 18 सितंबरमासः (हि.स.)।
उत्तरप्रदेशस्य औरैयाजनपदे अपेक्षा महिला एवं बाल विकास समिति इत्यनया संस्थया आजीविकाविविधीकरणकार्यक्रमस्य अन्तर्गतं समितिकार्यालये महिलाकृषकेभ्यः मशरूमोत्पादनस्य विपणनस्य मूल्यवर्धनस्य च विषये शुक्रवासरे एकदिवसीयप्रशिक्षणकार्यक्रमः आयोजितः। प्रशिक्षणकार्यक्रमे परियोजनाक्षेत्रस्य द्वादशग्रामपञ्चायतेभ्यः पञ्चत्रिंशत् महिलाकृषकाः सहभागितां कृतवत्यः।
कार्यक्रमस्य शुभारम्भः समितेः सचिवया रीनापाण्डेयया कृतः। तया महिलाकृषकान् सम्बोधयन्त्या उक्तं यत् महिलाः कृषिकार्येण सह मशरूमोत्पादनम् इत्यादीन् आयवर्धकान् व्यवसायान् स्वीकृत्य न्यूनव्ययेन गृहे एव अतिरिक्तम् आयम् अर्जयितुं शक्नुवन्ति। तया प्रशिक्षणसमये शिक्षिताः तकनीकीविधयः स्वग्रामेषु प्रयोक्तुं तथा अन्याः महिलाः अपि अस्मिन् कार्ये संयोजयितुं च आह्वानं कृतम्।
मुख्यप्रशिक्षकेण डॉ. धनञ्जयसिंहेन ऑयस्टर मशरूमस्य श्वेतगुलाबीनीलवर्णीयानां च प्रभेदानां विषये सूचना प्रदत्ता। तेन वैज्ञानिकविधिना मशरूमोत्पादनस्य व्यावहारिकप्रशिक्षणमपि प्रदत्तम्। तेन तृणस्य सिद्धता, स्पॉनबीजपूरणस्य स्तरविन्यासविधिः, पुटकनिर्माणम्, आर्द्रतायाः तापमानस्य च प्रबन्धनम्, फलनप्रक्रिया तथा मशरूमस्य परिपालनम् इत्यादीनां विषयाणां विस्तरेण सूचना प्रदत्ता। तेन उक्तं यत् एकेन किलोग्रामपरिमितेन स्पॉनबीजेन प्रायः अष्टतः दश पुटकानि निर्मातुं शक्यन्ते।
प्रशिक्षणस्य समये महिलाभ्यः मशरूमस्य विपणनस्य मूल्यवर्धनस्य च विषये अपि सूचना प्रदत्ता। कथितं यत् ताजामशरूमेण सह शुष्कमशरूम, मशरूमचिप्स्, मशरूमबिस्किट् इत्यादीन् उत्पादान् निर्माय उत्तमं विपणिमूल्यं प्राप्तुं शक्यते।
कार्यक्रमे महिलाकृषकाः उत्साहपूर्वकं सहभागितां कृतवत्यः तथा मशरूमोत्पादनं स्वस्य आजीविकायाः साधनरूपेण स्वीकर्तुं रुचिं प्रदर्शितवत्यः। संस्थया इच्छुकाभ्यः महिलाभ्यः तकनीकीमार्गदर्शनं प्रदातुं आजीविकया सह तासां संयोजनाय च सहकारितां प्रदातुम् आश्वासनं दत्तम्। अस्मिन् अवसरे संस्थायाः दलस्य परियोजनाकार्यकर्तारश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani