Enter your Email Address to subscribe to our newsletters

फतेहपुरम्, 18 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य फतेहपुरजनपदे शुक्रवासरे सायंकाले आदमपुरकोरसमग्रामे स्थिते सन्दीपनीपब्लिकस्कूले पूर्वराष्ट्रपतिः रामनाथकोविन्दः पत्नी सविता तथा पुत्री स्वाती इत्याभ्यां सह प्राप्तवान्। तेन पूर्वशिक्षामन्त्रिणः स्वर्गीयस्य अमरजीतसिंहजनसेवकस्य पत्नीं स्वर्गीयां प्रमिलासिंहस्य चित्रे पुष्पाणि समर्प्य दीपं प्रज्वाल्य श्रद्धाञ्जलिः प्रदत्ता। ततः सः परिवारीयजनैः सह प्रायः पञ्चपञ्चाशत् निमेषान् उपविश्य तेषां कुशलक्षेमं पृष्ट्वा शोकसंवेदनां प्रकटितवान्।
ज्ञातव्यं यत् पूर्वशिक्षामन्त्रिणः स्वर्गीयस्य अमरजीतसिंहजनसेवकस्य पत्नी स्वर्गीया प्रमिलासिंहः विगते ६ सितम्बर् दिनाङ्के दिवंगता अभवत्। तस्याः त्रयोदशसंस्कारकार्यक्रमः शुक्रवासरे आदमपुरस्थिते सन्दीपनीपब्लिकस्कूले आयोजितः।
पूर्वशिक्षामन्त्री स्वर्गीयः अमरजीतसिंहः २००२ तमे वर्षे भारतीयजनतापक्षतः विधायकः निर्वाचितः अभवत् तथा च २००७ तमं वर्षं यावत् शिक्षामन्त्रिपदम् अलङ्कृतवान्। सः क्षेत्रे ‘जनसेवक’ इति नाम्ना प्रसिद्धः आसीत्। तस्य परिचयः तस्य याने नित्यं वाद्यमानेन आल्हागानेन अपि भवति स्म। जनाः दूरदूरात् आल्हागानं श्रुत्वा ‘जनसेवकजी आगच्छति’ इति कथयन्ति स्म।
तस्य द्वौ पुत्रौ आशीषसिंहः अमितप्रतापसिंहश्च स्तः। तयोः ज्येष्ठपुत्रः आशीषसिंहः भारतीयजनतापक्षस्य किसानमोर्चायाः प्रदेशकार्यकारिण्याः सदस्यः अस्ति तथा रामचन्द्रमिशनसेवासमित्या सहापि सम्बद्धः अस्ति।
अस्मिन् अवसरे परिवारीयजनाः ऋषभः, विवेकसिंहः, प्रभातसिंहः, कृष्णासिंहः, अभिषेकसिंहः, रमेशसिंहपरिहारः, अभिजीतसिंहः, सूरजसिंहः, कैलाससिंहः, कुबेरसिंहश्च उपस्थिताः आसन्।
------------------------
Hindusthan Samachar / Dheeraj Maithani