Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 18 सितंबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामिना शुक्रवासरे मियांवालायां मसूरीदेहरादूनविकासप्राधिकरणस्य (एमडीडीए) पक्षतः प्रायः ८.६४ कोटिरूप्यकाणां व्ययेन विकसितस्य ‘जलसृष्टिपार्कस्य’ लोकार्पणं कृतम्। पुरातनं जलाशयं पुनर्जीवितं कृत्वा विकसिते अस्मिन् उद्याने पेडलबोटविहारः, द्वीपः, धावनमार्गः, योगमञ्चः, बालोद्यानं पुष्पोद्यानं च इत्यादीनि विविधाः सुविधाः विकसिताः सन्ति।
मुख्यमन्त्रिणा उक्तं यत् उद्यानमिदं प्राकृतिकसौन्दर्यस्य आधुनिकसुविधानां च उत्तमं समन्वयस्थलम् अस्ति। पुरातनस्य जलस्रोतसः संरक्षणं कृत्वा तस्य परितः सुविधानां विकासः पर्यावरणसंरक्षणेन सह स्वकीयां विरासतं सुरक्षितं स्थापयितुम् अपि कृतः प्रयासः अस्ति। तेन उक्तं यत् जलं वनानि च भारतीयसंस्कृतेः अभिन्नाङ्गे स्तः तथा च तयोः संरक्षणस्य दायित्वं वर्तमानसन्ततेः अपि अस्ति।
धामिना उक्तं यत् विकासस्य अर्थः केवलं कङ्क्रीटनिर्मितसंरचनानां निर्माणं नास्ति, अपितु जनानां जीवनं सुगमं करणं, नगरं सुन्दरं स्थापयितुं पर्यावरणस्य संरक्षणं च विकासस्य अभिन्नभागाः सन्ति। ‘जलसृष्टिपार्कः’ एतस्याः एव विचारधारायाः उदाहरणम् अस्ति। उद्याने जलाशयस्य मध्ये निर्मितं द्वीपं पेडलबोटविहारस्य सुविधा च आकर्षणस्य केन्द्रे स्तः इति कथयन् तेन उक्तं यत् अनेन रायपुरक्षेत्रस्य जनाः देहरादूननगरे एव प्राकृतिकपरिवेशस्य आनन्दं प्राप्तुं शक्नुवन्ति।
मुख्यमन्त्रिणा उक्तं यत् रायपुरक्षेत्रे मार्गाणां पेयजलस्य स्वास्थ्यस्य शिक्षायाः उद्यानानां मलजलव्यवस्थायाः जलौघसुरक्षायाः च सम्बन्धितेषु कार्येषु गतिः वर्धिता अस्ति। मार्गाणां डामरीकरणं, नवीनीकरणं विस्तारीकरणं च, मलजलव्यवस्थायाः सुधारः, नवीनानां नलकूपानाम् उपरिस्थजलभाण्डानां च निर्माणं इत्यादीनि कार्याणि कृतानि सन्ति। पुरातनानां पेयजलवाहिनीनां स्थाने नवीनवाहिनीनां स्थापनं नवीनवाहिनीनां च निर्माणकार्यं निरन्तरं प्रचलति।
तेन उक्तं यत् डिफेन्सकॉलोनी, सिंयावाला नेहरूकॉलोनी इत्यादिषु विभिन्नेषु क्षेत्रेषु उद्यानानां निर्माणेन सौन्दर्यीकरणेन च जनानां समीपे हरितक्षेत्राणि उपलब्धानि क्रियन्ते। आईटीपार्कतः पॉलीटेक्निकमार्गेण मङ्गलूवालापर्यन्तं मार्गव्यवस्थां सुदृढां कर्तुं कार्याणि अपि प्रचलन्ति।
धामिना उक्तं यत् देहरादूनस्य वर्धमानां जनसंख्यां दृष्ट्वा सौंगबन्धपरियोजनायाः कार्यमपि अग्रे वर्धते। अनेन भविष्ये नगरस्य पेयजलव्यवस्थायाः सुदृढीकरणं भविष्यति। रायपुरक्षेत्रे जलौघेन जलप्लावनेन च जनानां रक्षणाय नदीनां वर्षाजलप्रवाहमार्गाणां च उपरि जलौघसुरक्षायाः मार्गीकरणस्य च कार्याणि अपि क्रियन्ते।
मुख्यमन्त्रिणा स्थानीयजनान् उद्यानं स्वच्छं सुन्दरं च स्थापयितुं आह्वानं कृतम्। तेन उक्तं यत् सर्वकारः उद्यानस्य निर्माणं सुविधानां व्यवस्थां च कर्तुं शक्नोति, किन्तु तस्य संरक्षणं समाजस्य सामूहिकं दायित्वम् अस्ति। तेन बालकानां युवजनानां च उद्यानस्य उपयोगं योगाभ्यासाय धावनाय क्रीडायै प्रकृतिमध्ये समययापनाय च कर्तुम् आह्वानं कृतम्।
उद्याने धावनमार्गः, योगमञ्चः, बालोद्यानम्, शैक्षिकपुष्पोद्यानम्, भू-दृश्यसौन्दर्यीकरणम्, हरितक्षेत्राणि उपवेशनव्यवस्था च विकसितानि सन्ति। कार्यक्रमे विधायकः उमेशशर्माकाऊ, महापौरः सौरभथपलियालः, एमडीडीए उपाध्यक्षः बंशीधरतीवारी इत्यादयः अधिकारीणः स्थानीयजनाश्च उपस्थिताः आसन्।
-------------
Hindusthan Samachar / Dheeraj Maithani