Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 18 सितंबरमासः (हि.स.)।आध्यात्मिकगुरोः प्रदेशस्य मन्त्रिमण्डलस्य च सदस्यस्य सतपालमहाराजस्य पञ्चसप्ततितमे जन्मोत्सवे हरिद्वारस्य ऋषिकुलमैदाने २० तथा २१ सितम्बरदिनाङ्कयोः मानवधर्मसम्मेलनम् आयोजितं भविष्यति। सम्मेलनस्य सज्जताः उत्साहपूर्वकं प्रचलन्ति। आयोजकानां अनुसारं जन्मोत्सवकार्यक्रमे देशविदेशेभ्यः सहस्रशः श्रद्धालवः सन्तजनाश्च सम्मिलिष्यन्ति।
द्विदिवसीये आयोजने धर्मसंस्कृत्यध्यात्मसम्बद्धाः विविधाः कार्यक्रमाः भविष्यन्ति। तदर्थं श्रद्धालूनां हरिद्वारं प्रति आगमनक्रमः प्रारब्धः अस्ति। सतपालमहाराजः राजनीतिक्षेत्रेण सह आध्यात्मिकक्षेत्रेऽपि सक्रियः अस्ति। सः स्वप्रवचनानां माध्यमेन श्रद्धालुभ्यः अध्यात्मनः सनातनसंस्कृतेश्च महत्त्वस्य विषये संसूचनां ददाति। जन्मोत्सवकार्यक्रमे विशालसंख्यया श्रद्धालूनां सम्मिलितानां सम्भावना वर्तते।
Hindusthan Samachar / Dheeraj Maithani