योगस्थल्यां राज्यस्तरीयकुश्तीप्रतियोगितायाः शुभारम्भः
हरिद्वारम्, 18 सितंबरमासः (हि.स.)।खेलमहाकुम्भ २०२६ २७ अन्तर्गतं मुख्यमन्त्रिचषकप्रतियोगितायाः राज्यस्तरीयकुश्तीप्रतियोगितायाः शुभारम्भः रोशनाबादस्थिते योगस्थलीक्रीडापरिसरे अभवत्। प्रतियोगितायाः उद्घाटनं मुख्यातिथिना काङ्गडीस्थितस्य महामृत्युञ्जयाश्
राज्य स्तरीय खेल प्रतियोगिता का शुभारंभ करते हुए


हरिद्वारम्, 18 सितंबरमासः (हि.स.)।खेलमहाकुम्भ २०२६ २७ अन्तर्गतं मुख्यमन्त्रिचषकप्रतियोगितायाः राज्यस्तरीयकुश्तीप्रतियोगितायाः शुभारम्भः रोशनाबादस्थिते योगस्थलीक्रीडापरिसरे अभवत्। प्रतियोगितायाः उद्घाटनं मुख्यातिथिना काङ्गडीस्थितस्य महामृत्युञ्जयाश्रमस्य महामण्डलेश्वरेण रविन्द्रानन्देन दीपप्रज्वालनेन क्रीडकैः सह परिचयप्राप्त्या च कृतम्।

प्रतियोगितायां प्रदेशस्य सर्वेभ्यः जनपदेभ्यः आगताः क्रीडकाः अधःचतुर्दश, अधःएकोनविंशतिः तथा अधःपञ्चविंशतिः आयुवर्गेषु विभिन्नेषु भारवर्गेषु प्रभावशालिनं प्रदर्शनं कृतवन्तः। अधःचतुर्दश बालिकावर्गस्य षट्चत्वारिंशत्किलोग्रामभारवर्गे ऊधमसिंहनगरस्य शोमा प्रथमस्थानं, इन्शिका द्वितीयस्थानं, सोनम च तृतीयस्थानं प्राप्तवत्यः। तत्रैव एकोनचत्वारिंशत्किलोग्रामभारवर्गे हरिद्वारस्य दिव्याशीं प्रथमस्थानं तथा ऊधमसिंहनगरस्य रन्ना द्वितीयस्थानं प्राप्तवती।

उद्घाटनसमारोहे जिलाक्रीडाधिकारी रविन्द्रभण्डारी, क्षेत्रीययुवकल्याणाधिकारी मुकेशकुमारभट्टः, प्रशासनिकाधिकारी पूनम्मिश्रा, जितेन्द्रपण्डीरः, सहायकप्रशिक्षकः अनुरागराठी इत्यादयः युवा कल्याणविभागस्य क्रीडाविभागस्य च अधिकारीणः, क्रीडासमन्वयकाः, शिक्षाविभागस्य क्रीडाशिक्षकाः, निर्णायकमण्डलस्य सदस्याः प्रशिक्षकाश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani