हरिद्वारे कार्यशालायाम् उद्योगानां समस्यासु मन्थनम्
हरिद्वारम्, 18 सितंबरमासः(हि.स.)। उद्योगविभागस्य उत्तराखण्डस्य तथा भारतसर्वकारस्य उद्योगस्य आन्तरिकव्यापारस्य च संवर्धनविभागस्य (डीपीआईआईटी) संयुक्ततत्त्वावधाने शुक्रवासरे रोशनाबादस्थिते एकस्मिन् होटले व्यवसायसुगमतायाः विषये राज्यस्तरीया कार्यशाल
वर्कशॉप में मंचासीन अतिथि


हरिद्वारम्, 18 सितंबरमासः(हि.स.)।

उद्योगविभागस्य उत्तराखण्डस्य तथा भारतसर्वकारस्य उद्योगस्य आन्तरिकव्यापारस्य च संवर्धनविभागस्य (डीपीआईआईटी) संयुक्ततत्त्वावधाने शुक्रवासरे रोशनाबादस्थिते एकस्मिन् होटले व्यवसायसुगमतायाः विषये राज्यस्तरीया कार्यशाला आयोजिता। अस्यां कार्यशालायां प्रदेशस्य विभिन्नेभ्यः औद्योगिकक्षेत्रेभ्यः औद्योगिकसङ्घेभ्यश्च आगताः शताधिकाः प्रतिनिधयः सहभागं कृतवन्तः।

कार्यशालायाः उद्देश्यं व्यावसायिकप्रक्रियाः अधिकसरलाः पारदर्शिकाः समयबद्धाः निवेशकानुकूलाश्च कर्तुं तथा उद्योगजगतः प्रत्यक्षतया सुझावान् प्राप्तुम् आसीत्। प्रतिनिधिभिः विभागीयानुमतीनां, अन्तर्जालाधारितसेवानां, एकलवातायनव्यवस्थायाः तथा व्यवसायसञ्चालनस्य व्यावहारिकसमस्यानां विषये स्वविचाराः प्रस्तुताः।

डीपीआईआईटी अपरसचिवा हिमानीपाण्डे अवदत् यत् केन्द्रसर्वकारः राज्यसर्वकारश्च उत्तमव्यावसायिकवातावरणस्य निर्माणाय निरन्तरं कार्यं कुरुतः। उद्योगेभ्यः प्राप्तानां सुझावानाम् आधारेण सुधाराः अधिकप्रभाविरूपेण क्रियान्विताः भविष्यन्ति।

उत्तराखण्डस्य उद्योगसचिवः विनयशङ्करपाण्डे अवदत् यत् सर्वकारः प्रक्रियाणां अङ्कीकरणं, समयबद्धसेवाः तथा एकलवातायनव्यवस्थां सुदृढां करोति। अनेन नवीननिवेशकानां कृते सुविधाः वर्धन्ते तथा प्रदेशे निवेशस्य सकारात्मकं वातावरणं निर्मीयते।

उद्योगस्य महानिदेशकः आयुक्तश्च डॉ. सौरभगहर्वारः अवदत् यत् व्यवसायसुगमता केवलं क्रमाङ्कनं नास्ति, अपितु उद्योगेभ्यः उत्तमसेवानां प्रदाने निरन्तरं प्रचलमाना प्रक्रिया अस्ति। समस्याणां समयबद्धसमाधानं विभागानां मध्ये समन्वयश्च प्राथमिकतायां स्तः।

जिलाधिकारी मयूरदीक्षितः अवदत् यत् हरिद्वारः प्रमुखः औद्योगिकः जनपदः अस्ति तथा जिलाप्रशासनं पारदर्शिकाः समयबद्धाश्च सेवाः प्रदातुं प्रतिबद्धम् अस्ति। प्रौद्योगिकीआधारितसेवाभिः निवेशकानां विश्वासः वर्धिष्यते।

कार्यशालायाः सञ्चालनं संयुक्तनिदेशकः अनुपमद्विवेदी अकरोत्। अस्मिन् अवसरे अपरनिदेशकः शिखरसक्सेना, जिलाउद्योगकेन्द्रस्य महाप्रबन्धकः उत्तमकुमारतिवारी इत्यादयः अनेकाः अधिकारीणः उद्योगप्रतिनिधयश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani