परम्परायाः आधुनिकतायाश्च मध्ये सन्तुलनं स्थापयित्वा सांस्कृतिकधरोहरस्य संरक्षणम् आवश्यकम् : उपराष्ट्रपतिः
मुंबई, 18 सितंबरमासः (हि.स.)।उपराष्ट्रपतिः सी.पी. राधाकृष्णन् शुक्रवासरे अवदत् यत् विकासस्य मार्गे अग्रे गच्छता परम्परायाः आधुनिकतायाश्च मध्ये सन्तुलनं स्थापयितुम् आवश्यकम्। आधुनिकभौतिकसंरचनया, प्रौद्योगिक्या आर्थिकविकासेन च सह स्वकीयाभ्यः सांस्कृत
परम्परायाः आधुनिकतायाश्च मध्ये सन्तुलनं स्थापयित्वा सांस्कृतिकधरोहरस्य संरक्षणम् आवश्यकम् : उपराष्ट्रपतिः


मुंबई, 18 सितंबरमासः (हि.स.)।उपराष्ट्रपतिः सी.पी. राधाकृष्णन् शुक्रवासरे अवदत् यत् विकासस्य मार्गे अग्रे गच्छता परम्परायाः आधुनिकतायाश्च मध्ये सन्तुलनं स्थापयितुम् आवश्यकम्। आधुनिकभौतिकसंरचनया, प्रौद्योगिक्या आर्थिकविकासेन च सह स्वकीयाभ्यः सांस्कृतिकमूलाभ्यः दृढसम्बन्धं स्थापयित्वा रक्षणमेव विकसितभारतस्य वास्तविकं स्वरूपम् अस्ति। तेन उक्तं यत् समृद्धायाः सांस्कृतिकधरोहरायाः, भाषायाः, कलायाः, परम्पराणां मूल्यानां च संरक्षणं विकासस्य महत्त्वपूर्णः भागः भवितव्यम्।

उपराष्ट्रपतिः राधाकृष्णन् शुक्रवासरे श्रीगणेशक्रीडाकलारङ्गमञ्चे, स्वारगेट् इत्यत्र, पुणे महोत्सवस्य अष्टत्रिंशत्तमस्य संस्करणस्य उद्घाटनसमारोहे सम्बोधनं कुर्वन् आसीत्। राधाकृष्णन् अवदत् यत् पुणे महाराष्ट्रस्य सांस्कृतिकराजधानी अस्ति। पुणेमहोत्सवेन कला, संस्कृतिः, सङ्गीतम्, नृत्यम्, साहित्यं, क्रीडा पर्यटनं च एकस्मिन् मञ्चे समानीय राष्ट्रियस्तरे अन्तर्राष्ट्रीयस्तरे च स्वकीयां विशिष्टां परिचितिं निर्मिता अस्ति। विभिन्नदेशेभ्यः कलाकाराणां, पर्यटकानां, प्रतिनिधीनां विद्यार्थिनां च सहभागितया सांस्कृतिकविनिमयस्य अपि प्रोत्साहनं भवति। तेन सूचितं यत् अस्मिन् वर्षे महोत्सवे एकविंशतिदेशेभ्यः विद्यार्थिनः सहभागं कृतवन्तः। विभिन्नधर्माणां, संस्कृतीनां परम्पराणां च सम्मानः भारतस्य सांस्कृतिकजीवनस्य विशेषता अस्ति।

राधाकृष्णन् अवदत् यत् ‘विकसितभारतस्य’ विचारः समावेशी, समानतायाः आधारेण सांस्कृतिकधरोहरस्य मूलैः सम्बद्धश्च भवितव्यः। प्रत्येकस्य क्षेत्रस्य, समाजस्य प्रत्येकस्य वर्गस्य प्रत्येकं नागरिकस्य च विकासप्रक्रियायां सहभागितायै अवसरः प्राप्तव्यः। तेन उक्तं यत् पुणेमहोत्सवसदृशाः आयोजनानि स्थानीयकलाकाराणां, पर्यटनस्य स्थानीयार्थव्यवस्थायाश्च कृते अवसरान् प्रददति, तत्सह विश्वस्य समक्षं भारतस्य सांस्कृतिकधरोहरां प्रस्तुतयन्ति। पुणेमहोत्सवस्य निरन्तरायोजनाय आयोजकान् अभिनन्द्य राधाकृष्णनेन महोत्सवस्य संस्थापकाध्यक्षस्य स्वर्गीयस्य सुरेशकळमाडी इत्यस्य योगदानमपि स्मृतम्।

वैश्विकस्तरे सांस्कृतिकपर्यटनस्य प्रोत्साहनाय प्रयत्नः : राज्यपालः

राज्यपालः जिष्णुदेववर्मा अवदत् यत् गणेशोत्सवः आधिकारिकरूपेण ‘महाराष्ट्रस्य उत्सवः’ इति मान्यतां प्राप्तवान् अस्ति। गणेशोत्सवस्य समये आयोजितः पुणेमहोत्सवः विभिन्नैः सांस्कृतिककार्यक्रमैः राष्ट्रियैकतायाः भावनां सुदृढां करोति। तेन उक्तं यत् पर्यटनम् आर्थिकविकासस्य महत्त्वपूर्णं माध्यमम् अस्ति तथा च सर्वकारः वैश्विकस्तरे महाराष्ट्रे सांस्कृतिकपर्यटनस्य प्रोत्साहनाय प्रयत्नं करोति। भविष्ये पुणेमहोत्सवस्य विस्तारं कृत्वा वैश्विकसांस्कृतिकमहोत्सवरूपेण विकसितुं पर्याप्ताः सम्भावनाः सन्ति।

राज्यपालः अवदत् यत् पुणे न केवलं महाराष्ट्रस्य, अपितु सम्पूर्णस्य देशस्य इतिहासे सांस्कृतिकजीवने च विशिष्टं स्थानं धारयति। एषा महात्मा ज्योतिरावफुले क्रान्तिज्योतिः सावित्रीबाईफुले च कर्मभूमिः आसीत् तथा च सामाजिकसमानतायाः महिलाशिक्षायाश्च आन्दोलनानि अत्रतः सुदृढानि अभवन्।

अस्मिन् अवसरे उपमुख्यमन्त्री सुनेत्रा अजीतपवारः, उच्चशिक्षातान्त्रिकशिक्षामन्त्री चन्द्रकान्तपाटिलः, सांस्कृतिककार्याणां मन्त्री अधिवक्ता आशीषशेलारः, पूर्वमुख्यमन्त्री सुशीलकुमारशिन्दे, सांसद् हेमा मालिनी, सांसद् डॉ. मेधा कुलकर्णी, पुणेमहोत्सवस्य अध्यक्षः कृष्णकुमारगोयलः, मीरा सुरेशकळमाडी इत्यादयः बहवः गणमान्याः जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani