कुम्भस्य सज्जतां प्रति एडीजी-महोदयेन समीक्षा, अधिकारिभ्यः दत्ताः निर्देशाः
हरिद्वारम्, १८ सेप्टेम्बरमासः (हि.स.)। कुम्भमेला-२०२७ इत्यस्य सज्जतां प्रति शुक्रवासरे अपर-आरक्षक-महानिदेशकः अपराध-नैयायिकव्यवस्थाविभागस्य डॉ. वी.मुरुगेशनः हरिद्वारम् आगतवान्। तेन सीसीआर-सभागारे आरक्षकविभागस्य प्रारम्भिकसज्जतानां सुरक्षाव्यवस्थानां
बैठक के दौरान


हरिद्वारम्, १८ सेप्टेम्बरमासः (हि.स.)। कुम्भमेला-२०२७ इत्यस्य सज्जतां प्रति शुक्रवासरे अपर-आरक्षक-महानिदेशकः अपराध-नैयायिकव्यवस्थाविभागस्य डॉ. वी.मुरुगेशनः हरिद्वारम् आगतवान्। तेन सीसीआर-सभागारे आरक्षकविभागस्य प्रारम्भिकसज्जतानां सुरक्षाव्यवस्थानां च समीक्षासभा आयोजिता।

सभायां कुम्भमेलापकस्य वरिष्ठ-आरक्षकाधीक्षकः अद्यावधि कृतानां सज्जतानां भाविकार्ययोजनायाश्च प्रस्तुति-करणं कृतवान्। एडीजी-महोदयेन सुरक्षा-व्यवस्था, यातायातप्रबन्धनम्, जन-समूहनियन्त्रणम्, आपदाप्रबन्धनम्, आपत्कालीनव्यवस्था, सञ्चारव्यवस्था, अङ्कीयप्रौद्योगिक्याः प्रयोगः तथा चरणानुसारम् आरक्षकबलस्य नियुक्तिः इत्यादिनां विषयाणां विषये अधिकारिभिः सह विस्तरेण चर्चा कृता। तेन सर्वाः योजनाः अन्तिमरूपेण निश्चिताः कृत्वा निर्धारित-समयसीमायां कार्यं पूर्णं कर्तुं निर्देशाः दत्ताः।

एडीजी डॉ. मुरुगेशनः उक्तवान् यत् कुम्भमेलापकः धार्मिकदृष्ट्या आध्यात्मिकदृष्ट्या च विश्वस्य महत्तमः समारोहः अस्ति। अस्य निर्विघ्नतया सकुशलतया च आयोजनम् आरक्षक-विभागस्य सर्वोच्चप्राथमिकता अस्ति। श्रद्धालुभ्यः उत्तमसुविधानां प्रदानेन सह त्रुटिरहितसुरक्षाव्यवस्था सुनिश्चिती-करणीया। तेन उक्तं यत् कुम्भमेलाक्षेत्रे निर्मीयमाणानां क्षेत्राणां विभागानां च व्यवस्थाः समयात् पूर्वमेव अन्तिमरूपेण निश्चिताः क्रियन्ताम्। यातायातस्य जनसमूहनियन्त्रणस्य च कृते स्पष्टा प्रभावी च कार्ययोजना निर्मातव्या।तेन उक्तं यत् केवलम् एकस्य विभागस्य प्रयत्नाः पर्याप्ताः न भविष्यन्ति। सर्वैः सम्बद्धविभागैः सीमावर्तिजनपदैश्च सह उत्तमसमन्वयं कृत्वा सुदृढा योजना निर्मातव्या। समीक्षासभायाः अनन्तरम् एडीजी-महोदयेन कुम्भमेलाक्षेत्रस्य स्थलीयभ्रमणं कृत्वा व्यवस्थायाः वास्तविकस्थितेः अवलोकनं कृतम्। ततः एटीसी-स्थलं प्राप्य कुम्भमेलायाः कर्तव्याय प्रशिक्षणं प्राप्यमाणैः सैनिकैः सह संवादः कृतः।

सभायाम् अपराध-नैयायिकव्यवस्थायाः महानिरीक्षकः डॉ. नीलेश-आनन्दभरणे, गढ़वालस्य महानिरीक्षकः राजीवस्वरूपः, कुम्भमेलापकस्य महानिरीक्षकः डॉ. योगेन्द्रसिंहरावतः, कुम्भमेलापकस्य वरिष्ठ-आरक्षकाधीक्षकः आयुष-अग्रवालः, सूचनाविभागस्य आरक्षकाधीक्षकः मणिकान्तमिश्रः, एटीएसस्य आरक्षका-धिक्षिका सरिताडोभालः, यातायातस्य आरक्षकाधीक्षिका निशायादवः तथा जीआरपी इत्यस्य आरक्षकाधीक्षिका अरुणाभारती च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan