मोदिना आगरमालवायां घटिते दुर्घटनायां दुःखं प्रकटितम्, मृतकानां परिजनेभ्यः द्विलक्षरूप्यकाणां प्रतिव्यक्तिम् अनुग्रहराशेः घोषणा
नवदिल्ली, 19 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना मध्यप्रदेशस्य आगरमालवाजनपदे वर्षाजलपूरिते नाले कारयानस्य प्रवाहेन वहनेन अष्टजनानां मृत्योः घटनायां शनिवासरे दुःखं प्रकटितम्। प्रधानमन्त्रिणा मृतकानां परिजनेभ्यः प्रधानमन्त्रिराष्ट्रीयसा
प्रधानमंत्री नरेन्द्र मोदी गुरुवार को पश्चिम बंगाल में अन्नपूर्णा दिवस पर आयोजित कार्यक्रम को वीडियो संदेश के माध्यम से संबोधित करते हुए


नवदिल्ली, 19 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना मध्यप्रदेशस्य आगरमालवाजनपदे वर्षाजलपूरिते नाले कारयानस्य प्रवाहेन वहनेन अष्टजनानां मृत्योः घटनायां शनिवासरे दुःखं प्रकटितम्। प्रधानमन्त्रिणा मृतकानां परिजनेभ्यः प्रधानमन्त्रिराष्ट्रीयसाहाय्यकोषात् द्विलक्षरूप्यकाणि प्रतिपरिजनम् अनुग्रहराशिरूपेण प्रदातुं घोषणा कृता।

प्रधानमन्त्रिकार्यालयेन ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे उक्तम्— “मध्यप्रदेशस्य आगरमालवायां घटिता दुर्घटना अत्यन्तं दुःखदायिनी अस्ति। स्वकीयजनान् हृतवतां जनानां प्रति मम संवेदनाः सन्ति।”

मोदिना उक्तं यत् दुर्घटनायां प्राणान् त्यक्तवतां प्रत्येकस्य जनस्य निकटतमाय परिजनाय प्रधानमन्त्रिराष्ट्रीयसाहाय्यकोषात् द्विलक्षरूप्यकाणि अनुग्रहराशिरूपेण प्रदास्यन्ते। सः उक्तवान् यत् आहतानां कृते पञ्चाशत्सहस्ररूप्यकाणि प्रदास्यन्ते।

उल्लेखनीयं यत् आगरमालवाजनपदस्य नलखेड़ानगरे मां बगलामुखीमन्दिरस्य समीपे अतिवृष्टेः कारणेन नाला जलपूरितः अभवत्। तस्मिन् एव समये उज्जयिनीतः आगतान् ओडिशाराज्यस्य श्रद्धालून् वहन्ती कार् तीव्रजलप्रवाहे प्रवाहिता। अस्मिन् दुर्घटनायां त्रिभिः बालकैः सह अष्टजनानां मृत्युः अभवत्।

ज्ञातं यत् क्षेत्रे रात्रौ निरन्तरं जातायाः अतिवृष्टेः अनन्तरं नालस्य जलस्तरः वर्धितः आसीत्, येन एषा दुर्घटना अभवत्।

-----------

Hindusthan Samachar / Dheeraj Maithani