एशियाईक्रीडाः २०२६ - नीरजचोपडा इत्यनेन भारतीयदलाय शुभकामनाः प्रदत्ताः
नवदिल्ली, १९ सेप्टेम्बरमासः (हि.स.)। प्रसिद्धभालाप्रक्षेपकः नीरजचोपडः विंशत्यधिकद्विसहस्रतमवर्षस्य एशियाई-क्रीडासु भागं गृह्णतेभ्यः भारतीयदलेभ्यः शुभकामनाः प्रदत्तवान्। सः आशां प्रकटितवान् यत् भारतीयक्रीडकाः उत्तमं प्रदर्शनं कृत्वा देशं गौरवान्वितं
नीरज चोपड़ा


नवदिल्ली, १९ सेप्टेम्बरमासः (हि.स.)। प्रसिद्धभालाप्रक्षेपकः नीरजचोपडः विंशत्यधिकद्विसहस्रतमवर्षस्य एशियाई-क्रीडासु भागं गृह्णतेभ्यः भारतीयदलेभ्यः शुभकामनाः प्रदत्तवान्। सः आशां प्रकटितवान् यत् भारतीयक्रीडकाः उत्तमं प्रदर्शनं कृत्वा देशं गौरवान्वितं करिष्यन्ति।

नीरजचोपडा अस्मिन् समये एशियाई-क्रीडासु भागं न गृह्णाति। द्विवारम् ओलम्पिकपदकविजेता चोपडा पाद-गुल्फस्य स्नायुबन्धने अभिघात-कारणेन एशियाईक्रीडाभ्यः बहिः अस्ति। तथापि सः यद्यपि प्रतियोगितायां सम्मिलितः नास्ति, तथापि भारतीयदलाय तस्य समर्थनं निरन्तरं वर्तते।

२०१८ तथा २०२३ वर्षयोः एशियाईक्रीडासु सुवर्णपदकं विजित्य नीरजचोपडा इत्यनेन जापानं प्राप्तेभ्यः भारतीयक्रीडकेभ्यः शुभकामनाः प्रदत्ताः। सः शनिवासरे सामाजिकमाध्यममञ्चे लिखितवान्— “एशियाईक्रीडा २०२६ मध्ये भारतीयदलाय मम हार्दिक्यः शुभकामनाः। अहं विश्वसिमि यत् ते सर्वे अस्मान् गौरवान्वितान् करिष्यन्ति।”

जापानदेशस्य आइचि-नागोया-नगरे एशियाईक्रीडा २०२६ शनिवासरे औपचारिकरूपेण प्रारब्धा। पालोमा मिजुहोक्रीडाङ्गणे आयोजिते भव्ये उद्घाटनसमारोहे एशियादेशानां विभिन्नेभ्यः भागेभ्यः समागताः क्रीडकाः अधिकारिणश्च सम्मिलिताः।

उद्घाटनसमारोहे भारतीयदलेन पूर्णो-त्साहेन सञ्चलनं कृतम्। द्विवारम् ओलम्पिकपदकविजेत्री लक्ष्यवेधिका मनुभाकरः तथा प्रसिद्धः कबड्डीक्रीडकः पवनसेहरावतः हस्तयोः त्रिवर्णध्वजं धृत्वा भारतीयदलस्य नेतृत्वं कुर्वन्तौ दृश्येते स्म। तयोः पश्चात् भारतीयक्रीडकाः उत्साहपूर्वकं सञ्चलितवन्तः।

एशियाईक्रीडा २०२६ मध्ये भारतस्य पञ्चशताधिकाः क्रीडकाः षट्त्रिंशत्सु क्रीडासु भागं गृह्णन्ति। भारतं गतासु एशियाईक्रीडासु स्वस्य श्रेष्ठतमं प्रदर्शनं कुर्वन् समग्ररूपेण १०७ पदकानि विजितवान् आसीत्, येषु २८ सुवर्णपदकानि, ३८ रजतपदकानि, ४१ कांस्यपदकानि च आसन्। अस्मिन् समये अपि भारतीयदलं तदेव प्रदर्शनं अग्रे नेतुं लक्ष्येण प्रतियोगितायां प्रविष्टम् अस्ति।

Hindusthan Samachar / Divya Ranjan