मुख्यमन्त्रिणा मन्त्री अशोकसिङ्घले जन्मदिवसस्य शुभकामनाः प्रदत्ताः
गुवाहाटी, 19 सितंबरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा शनिवासरे स्वमन्त्रिमण्डलस्य सहकर्मिणे मन्त्रिणे अशोकसिङ्घलाय च जन्मदिवसस्य हार्दिकाः शुभकामनाः बधाईश्च प्रदत्तवान्। मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशितेन सन्देशेन अवदत् य
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 19 सितंबरमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा शनिवासरे स्वमन्त्रिमण्डलस्य सहकर्मिणे मन्त्रिणे अशोकसिङ्घलाय च जन्मदिवसस्य हार्दिकाः शुभकामनाः बधाईश्च प्रदत्तवान्।

मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशितेन सन्देशेन अवदत् यत् कुशलः, कर्मठः उत्तरदायी च मन्त्रिरूपेण अशोकसिङ्घलः राज्यसर्वकारस्य विविधाः उत्तरदायित्वाः सफलतया निर्वहति।

सः अवदत् यत् जनकल्याणे, सुशासनस्य स्थापनायां तथा असमस्य समग्रविकासे च सिङ्घलस्य निष्ठा, कार्यं प्रति समर्पणं एकाग्रता च प्रशंसनीया अस्ति।

मुख्यमन्त्रिणा मातुः कामाख्यायाः श्रीमन्तशङ्करदेवगुरोश्च श्रीचरणयोः सिङ्घलस्य दीर्घायुः, उत्तमस्वास्थ्यं, सुखसमृद्धिः तथा भविष्ये अधिकसफलतायै मङ्गलमयजीवनाय च प्रार्थना कृता।

------------

Hindusthan Samachar / Dheeraj Maithani