Enter your Email Address to subscribe to our newsletters

रायपुरम्, १९ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य शनिवासरे रायपुरे सरगुजाजनपदे च आयोजितेषु विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:२५ वादने रायपुरस्थितं एकं निजीविश्रामस्थलं प्राप्य चतुर्थे वार्षिके बीएमसी-छत्तीसगढ-कर्कटरोगसम्मेलने भागं ग्रहीष्यति।
ततः मुख्यमन्त्री मध्याह्ने १२:२० वादने आरक्षक-मुख्यालयस्य हेलीपैडस्थलं प्राप्स्यति तथा १२:२५ वादने हेलिकॉप्टर-यानेन अम्बिकापुरं प्रति प्रस्थास्यति। मध्याह्ने १:२५ वादने अम्बिकापुरस्थिते राजमोहिनीदेवी-कन्यास्नातकोत्तर-महाविद्यालयस्य क्रीडाङ्गणे प्राप्य १:४० वादने एकस्मिन् निजीविश्रामगृहे आयोजिते अग्र-महाकुम्भ-२०२६ कार्यक्रमे भागं ग्रहीष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री मध्याह्ने ३:४० वादने अम्बिकापुरात् प्रस्थाय ३:५५ वादने सूरजपुर-जनपदस्य विश्रामपुरस्थितम् अयप्पा-प्रांगणस्य हेलीपैडस्थलं प्राप्स्यति। ततः सायं ४:१० वादने विश्रामपुररेलस्थानकस्य मुख्यमार्गे आयोजिते कार्यक्रमे भागं ग्रहीष्यति। ततः मुख्यमन्त्री सायं ५:५५ वादने रायपुरं प्रत्यागमिष्यति।
Hindusthan Samachar / Divya Ranjan