इतिहासस्य पृष्ठेषु २० सेप्टेम्बरमासः — तमिलचलच्चित्रजगतः प्रथमा स्वप्नसुन्दरी
तमिलचलच्चित्रजगतः प्रथमा “स्वप्नसुन्दरी” इति नाम्ना विख्याता अभिनेत्री टी.आर. राजकुमारी १९४०-तमे दशके स्वस्य सौन्दर्येण, उत्कृष्टाभिनयेन, गायनेन नृत्यकलया च दीर्घकालं यावत् दर्शकाणां हृदयानि विजितवती। सा दक्षिणभारतीयचलच्चित्रजगतः प्रथमा महिला-सुपरस
विख्यात अभिनेत्री टी.आर.राजकुमारी


तमिलचलच्चित्रजगतः प्रथमा “स्वप्नसुन्दरी” इति नाम्ना विख्याता अभिनेत्री टी.आर. राजकुमारी १९४०-तमे दशके स्वस्य सौन्दर्येण, उत्कृष्टाभिनयेन, गायनेन नृत्यकलया च दीर्घकालं यावत् दर्शकाणां हृदयानि विजितवती। सा दक्षिणभारतीयचलच्चित्रजगतः प्रथमा महिला-सुपरस्टार इति मन्यते। तस्याः वास्तविकं नाम तञ्जावूर-रङ्गनायकी-राजयी इति आसीत्। प्रसिद्धेन निर्देशक़ेन के. सुब्रमण्यम्-महोदयेन ताम् अन्विष्य “कच्च देवयानी” (१९४१) इति चलचित्रे अवसर: प्रदत्त:। ततः सा ‘राजकुमारी’ इति नाम्ना प्रसिद्धा अभवत्। तस्याः “हरिदास” (१९४४) इति चलचित्रेण तस्मिन् काले इतिहासः रचितः। एतत् चलचित्रं चेन्नई-नगरस्य एकस्मिन् चलचित्रगृहे निरन्तरं ११४ सप्ताहान् यावत् प्रदर्शितम्।

वस्तुतः ५ मे १९२२ दिनाङ्के तमिलनाडुराज्यस्य तञ्जावूरनगरे जाता राजकुमारी सङ्गीतकाराणां परिवारेण सह सम्बद्धा आसीत्। तस्याः माता पितामही च उभे सङ्गीतज्ञे आस्ताम्। राजकुमारी अपि गायिका भवितुम् इच्छति स्म। अतः सा कर्णाटकसङ्गीते प्रशिक्षणं प्राप्तवती। ततः सा चलचित्रक्षेत्रे गन्तुं निर्णयं कृतवती। तस्याः प्रथमं चलचित्रं “कुमाला कुलथुनगान” इति आसीत्, यत् १९३९ तमे वर्षे प्रदर्शितम्। आरम्भे चलचित्रेषु तस्याः ‘राजयी’ इति नाम एव प्रयुज्यते स्म। एतत् चलचित्रं सफलं नाभवत्। किन्तु तस्याः द्वितीये चलचित्रे “कच्च देवयानी” इत्यस्मिन् प्रसिद्धेन निर्देशक़ेन के. सुब्रमण्यम्-महोदयेन तस्यै अवसरः प्रदत्तः। एतत् चलचित्रं च अत्यन्तं सफलम् अभवत्। ततः एव सा ‘टी.आर. राजकुमारी’ इति नाम्ना प्रसिद्धा अभवत्।

१९४८ तमे वर्षे प्रदर्शितं तस्याः “चन्द्रलेखा” इति चलचित्रं भारतीयचलच्चित्रजगतः भव्यतमेषु चलचित्रेषु परिगण्यते। एतत् चलचित्रं अन्ताराष्ट्रियस्तरेऽपि प्रसिद्धिम् अलभत। सा केवलं स्वसौन्दर्यस्य कृते न, अपि तु भावपूर्णाभ्यां नेत्राभ्यां, उत्कृष्टया शास्त्रीयनृत्यकलया तथा कर्णाटकसङ्गीतस्य गायनेन अपि प्रसिद्धा आसीत्। सा एम.जी. रामचन्द्रन्, शिवाजी गणेशन तथा एम.के. त्यागराज इत्यादिभिः प्रसिद्धैः कलाकारैः सह कार्यं कृतवती। तस्याः परिवारेण तमिलचलच्चित्रजगत् सप्त अभिनेत्र्यः एकं निर्देशकं च प्राप्तवत्। तस्याः चलचित्रपरम्परा पश्चात् तस्याः पौत्री ज्योति मीना यावत् अपि प्रापिता। जीवनपर्यन्तम् अविवाहिता राजकुमारी दीर्घकालिकव्याधेः अनन्तरं २० सेप्टेम्बरमासे १९९९ तमे वर्षे दिवंगता अभवत्।

अन्याः प्रमुखाः घटनाः

१९९५ — संयुक्तराष्ट्रमहासभायाः पञ्चाशत्तमं अधिवेशनम् आरब्धम्।२००० — क्लिण्टन-दम्पती ‘व्हाइट वाटर’ प्रकरणसम्बद्धेभ्यः आरोपेभ्यः मुक्तौ अभवताम्।२००१ — अमेरिकादेशेन १५० युद्धविमानानि खाड़ीक्षेत्रे प्रेषितानि।२००३ — संयुक्तराष्ट्रमहासभया प्रस्तावः पारितः, यस्मिन् इस्रायल्-देशं यासिर अराफातस्य सुरक्षां सुनिश्चितं कर्तुं निर्दिष्टम्।२००४ — इण्डोनेशियादेशे राष्ट्रपतिपदस्य निर्वाचनार्थं मतदानम् अभवत्।२००६ — ब्रिटेनस्य रॉयल बॉटैनिक गार्डन्स्-संस्थायाः वैज्ञानिकाः २०० वर्षप्राचीनानि बीजानि अङ्कुरयितुं सफलाः अभवन्।— बहरैन्-देशे विश्वकन्नड-संस्कृतिसम्मेलनस्य आयोजनम् अभवत्।— १५ वर्षाणाम् अनन्तरं ब्रुसेल्स-नगरे भारतमहोत्सवस्य आयोजनं पुनरारब्धम्।२००७ — फ्रान्स-देशस्य सर्वाधिकवृद्धा महिला सिमोन कैपोनः ११३ वर्षाणां वयसि दिवंगता।२००९ — मराठीभाषायाः चलचित्रं ‘हरिश्चन्द्राची फैक्ट्री’ ऑस्कर-पुरस्कारस्य विदेशीयचलचित्र-वर्गे भारतस्य प्रतिनिधिचलचित्रत्वेन चयनितम्।२०१२ — भारतस्य राजभाषा हिन्दी विश्वस्य द्वितीया सर्वाधिकजनैः भाष्यमाणा भाषा अस्ति। बहुभाषिणः भारतस्य हिन्दीभाषिणां राज्यानां जनसङ्ख्या ४६ कोटिभ्यः अधिका अस्ति।

जन्म

१५४७ — फैज़ी — मध्यकालीनभारतस्य विद्वान् साहित्यकारः फारसीभाषायाः प्रसिद्धः कविश्च।१८९७ — नानासाहबपरुलेकर: — मराठीभाषायाः पत्रकारः।१९११ — श्रीराम: शर्मा आचार्य: — आध्यात्मिकव्यक्तित्वम्।१९२१ — अजीतराम: वर्मा — पद्मभूषण-पुरस्कारेण सम्मानितः भारतीयः वैज्ञानिकः।१९४२ — राजिंदरगोयल: — भारतीयः क्रिकेटक्रीडकः, यः गोलन्दाजरूपेण विशेषां ख्यातिम् अलभत।१९४८ — महेशभट्ट: — प्रसिद्धः चलचित्रनिर्माता निर्देशकश्च।१९२४ — ए. नागेश्वरराव: — तेलुगुचलच्चित्रस्य अभिनेता चलचित्रनिर्माता च।१९५७ — अनुपमश्याम: — भारतीयः चलचित्र-दूरदर्शनकलाकारः।१९७३ — कैलाश: चौधरी — भारतीयजनतापक्षस्य राजनेता।

निधनम्

१९२७ — मोहम्मद: बरकतउल्ला — भारतीयः स्वातन्त्र्यसेनानी।१९२८ — नारायणगुरुः — भारतस्य महान् सन्तः समाजसुधारकश्च।१९३३ — एनी बेसेंट — भारतस्य होमरूल-लीगस्य संस्थापिका।१९४२ — कनकलता बरुआ — भारतीयः महिला स्वातन्त्र्यसेनानी।१९९९ — राजकुमारी — तमिलचलच्चित्रजगति ‘स्वप्नसुन्दरी’ इति नाम्ना विख्याता अभिनेत्री।२०१७ — शकीला — १९५०–६० तमे दशके हिन्दीचलच्चित्रजगतः प्रसिद्धा अभिनेत्री।२००९ — प्रभा खेतान — हिन्दीभाषायाः प्रतिष्ठिता उपन्यासकारा, कवयित्री, नारीवादीचिन्तिका समाजसेविका च।

महत्त्वपूर्णः अवसरः

रेलवे-सुरक्षाबल-दिवसः।

Hindusthan Samachar / Divya Ranjan