झीरमप्रकरणं प्रति काङ्ग्रेसस्य अद्य महत्त्वपूर्णा सभा, वरिष्ठनेतारः उपस्थिताः भविष्यन्ति
रायपुरम्, १९ सेप्टेम्बरमासः (हि.स.)। झीरमप्रकरणं प्रति छत्तीसगढ-काङ्ग्रेसस्य महत्त्वपूर्णा सभा शनिवासरे प्रदेशस्य मुख्यालये राजीवभवने आयोज्यते। मध्याह्ने १२:३० वादने प्रदेश-काङ्ग्रेसाध्यक्षस्य दीपकबैजस्य अध्यक्षतायां आयोज्यमानायां सभायां दलस्य वरिष
कांग्रेस प्रदेश मुख्यालय राजीव भवन


रायपुरम्, १९ सेप्टेम्बरमासः (हि.स.)। झीरमप्रकरणं प्रति छत्तीसगढ-काङ्ग्रेसस्य महत्त्वपूर्णा सभा शनिवासरे प्रदेशस्य मुख्यालये राजीवभवने आयोज्यते। मध्याह्ने १२:३० वादने प्रदेश-काङ्ग्रेसाध्यक्षस्य दीपकबैजस्य अध्यक्षतायां आयोज्यमानायां सभायां दलस्य वरिष्ठनेतारः विधिविशेषज्ञाश्च भागं ग्रहीष्यन्ति।

सभायां प्रतिपक्षनेता डॉ. चरणदासमहन्तः, पूर्वमुख्यमन्त्री भूपेशबघेलः, टी.एस. सिंहदेवः, ताम्रध्वजसाहुः इत्येतै: च सह काङ्ग्रेसस्य वरिष्ठनेतारः उपस्थिताः भविष्यन्ति। तदतिरिक्तं झीरम-बलि-दानिनां परिजनाः घटनायां च आहताः जनाः अपि सभायां भागं ग्रहीष्यन्ति।

प्रदेशकाङ्ग्रेसस्य प्रभारीमहामन्त्री मलकीतसिंहगैदूसहितानां अन्येषां वरिष्ठनेतॄणां विधिविशेषज्ञाणां च उपस्थितौ झीरमप्रकरणस्य नैयायिकपक्षेषु चर्चा क्रियते। सभायां प्रकरणं प्रति अग्रिम-रणनीतेः निर्धारणेन सह नैयायिक-विकल्पानाम् अपि विचारविमर्शः क्रियते।

Hindusthan Samachar / Divya Ranjan