Enter your Email Address to subscribe to our newsletters

छिन्दवाडा, १९ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य लोकनिर्माणविभागस्य मन्त्री तथा छिन्दवाडाजनपदस्य प्रभारि-मन्त्री राकेशसिंहः अद्य शनिवासरे जनपदस्य भ्रमणं करिष्यति। अस्मिन् अवसरे ते सेवासङ्कल्पाभियानस्य सज्जतां प्रति जनप्रतिनिधिभिः अधिकारिभिः च सह सभां कृत्वा कार्यक्रमानां सज्जतायाः व्यवस्थायाः च समीक्षां करिष्यन्ति। तदनन्तरं ते विद्यार्थिनां मध्ये गत्वा चित्रकलायाः भाषणप्रतियोगितायाः च सहभागिता करिष्यन्ति। अमरवाडाक्षेत्रे आयोजिते भूमिपूजनकार्यक्रमे अपि ते सहभागितां करिष्यन्ति।
प्रभारिमन्त्री प्रातः ११ वादने सर्किट्-हाउस इत्यत्र प्राप्स्यन्ति। तत्र ते जनप्रतिनिधिभिः सह सेवासङ्कल्पाभियानस्य विषये सभां करिष्यन्ति। सभायां अभियानस्य अन्तर्गतं प्रस्तावितानां कार्यक्रमाणां, जनसह-भागितायाः, आयोजनसम्बद्धानां सज्ज-तानां च विषये चर्चा भविष्यति। ततः प्रातः ११:४५ वादने अधिकारिभिः सह समीक्षासभा भविष्यति। अस्यां सभायां अभियानस्य विभिन्नकार्यक्रमाणां सज्जतायाः व्यवस्थायाः च विषये सूचनाः प्राप्य आवश्यकनिर्देशाः प्रदास्यन्ते।
तदनन्तरं राकेशसिंहः मध्याह्ने १२:३५ वादने शासकीय-उत्कृष्ट-उच्चतर-माध्यमिक-विद्यालयं, छिन्दवाडां प्राप्स्यन्ति। तत्र सेवासङ्कल्पाभियानस्य अन्तर्गतं विद्यार्थिभ्यः आयोजितायां चित्रकलाप्रतियोगितायां भाषण-प्रतियोगितायां च सहभागिता कृत्वा विद्यार्थिभिः सह संवादं करिष्यन्ति। भ्रमणस्य अग्रिमचरणे प्रभारिमन्त्री मध्याह्ने २ वादने अमरवाडा-तहसीलस्य खपराचौरई-सिङ्गोडीनगरे आयोजिते भूमिपूजनकार्यक्रमे सहभागितां करिष्यन्ति। कार्यक्रमे सहभागितां कृत्वा ते मध्याह्ने ३ वादने सिङ्गोडीतः नर्मदापुरं प्रति प्रस्थास्यन्ति।
Hindusthan Samachar / Divya Ranjan