‘सेवासङ्कल्प’ अभियानस्य अन्तर्गतं बागडोगराविमानपत्तने स्वच्छताभियानं वृक्षारोपणं च
सिलीगुड़ी, 19 सितंबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरम् उद्दिश्य आयोजितस्य ‘सेवासङ्कल्प’ कार्यक्रमस्य अन्तर्गतं शनिवासरे बागडोगराविमानपत्तनपरिसरे स्वच्छताभियानं वृक्षारोपणकार्यक्रमश्च आयोजितौ। कार्यक्रमे पञ्चायतविभागस्य
‘सेवासङ्कल्प’ अभियानस्य अन्तर्गतं बागडोगराविमानपत्तने स्वच्छताभियानं वृक्षारोपणं च


सिलीगुड़ी, 19 सितंबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरम् उद्दिश्य आयोजितस्य ‘सेवासङ्कल्प’ कार्यक्रमस्य अन्तर्गतं शनिवासरे बागडोगराविमानपत्तनपरिसरे स्वच्छताभियानं वृक्षारोपणकार्यक्रमश्च आयोजितौ। कार्यक्रमे पञ्चायतविभागस्य राज्यमन्त्री शान्तनुप्रामाणिकः सहभागितां कृतवान्। सः पौधेषु जलसिञ्चनं कृत्वा मार्जन्या परिसरस्य स्वच्छतामपि कृतवान्।

अस्मिन् अवसरे पञ्चायतविभागस्य राज्यमन्त्री शान्तनुप्रामाणिकः तथा वित्तपरिवहनविभागयोः राज्यमन्त्री आनन्दमयबर्मणः अपि उपस्थितौ आस्ताम्।

पञ्चायतविभागस्य राज्यमन्त्री शान्तनुप्रामाणिकः अवदत् यत् सम्पूर्णे देशे ‘स्वच्छभारताभियानम्’ प्रचलति। प्रधानमन्त्रिणः जन्मदिवसस्य अवसरम् उद्दिश्य मासपर्यन्तं प्रचल्यमाने ‘सेवासङ्कल्प’ कार्यक्रमे स्वच्छतायै विशेषं महत्त्वं प्रदत्तम् अस्ति। अस्यैव कार्यक्रमस्य अन्तर्गतं पञ्चायतग्रामीणविकासविभागस्य विमानपत्तनप्राधिकरणस्य च संयुक्तप्रयत्नेन अयं कार्यक्रमः प्रारब्धः अस्ति। मन्त्री अवदत् यत् आगामिषु दिवसेषु राज्यस्य सर्वासु पञ्चायतेषु एतादृशानां अपशिष्टप्रसंस्करणकेन्द्राणां स्थापनायाः योजना अस्ति। ततः बृहन्नगरेष्वपि एतादृशी व्यवस्था कार्यान्वयितुं दिशि कार्यं करिष्यते।

Hindusthan Samachar / Dheeraj Maithani