Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 सितंबरमासः (हि.स.)।
केन्द्रसर्वकारः आगामिनि अक्टूबरमासे १४ राज्येषु केन्द्रशासितप्रदेशेषु च दीनदयालोपाध्यायग्रामीणकौशल्ययोजनायाः अर्थात् डीडीयू जीकेवाई २.० इत्यस्य प्रशिक्षणवर्गान् प्रारभयिष्यति। अस्याः योजनायाः अन्तर्गतं ३४,९२० ग्रामीणयुवभ्यः कौशलप्रशिक्षणं प्रदास्यते।
केन्द्रीयग्रामीणविकासमन्त्रालयस्य अनुसारम् अक्टूबरमासे १,१६४ प्रशिक्षणवर्गाः प्रारप्स्यन्ते तथा ३४,९२० ग्रामीणयुवानः प्रशिक्षणं प्राप्स्यन्ति। एतत् प्रशिक्षणं २०२७ तमस्य वर्षस्य दिसम्बरमासस्य ३१ दिनाङ्कपर्यन्तं प्रचलिष्यति।
केन्द्रीयग्रामीणविकासमन्त्रालयेन अक्टूबरमासात् १४ राज्येषु केन्द्रशासितप्रदेशेषु च दीनदयालोपाध्यायग्रामीणकौशल्ययोजनायाः २.० इत्यस्य अन्तर्गतं नवीनाः प्रशिक्षणवर्गाः प्रारभ्यन्ते। अस्य अन्तर्गतं १४ राज्येषु केन्द्रशासितप्रदेशेषु च ३४,९२० ग्रामीणयुवानः कौशलप्रशिक्षणम् आरप्स्यन्ते।
अस्य प्रारम्भस्य कृते ग्रामीणविकासमन्त्रालयेन प्रथमचरणे येषां १४ राज्येषु केन्द्रशासितप्रदेशेषु च सज्जतायाः समीक्षा कृता, तेषु उत्तरप्रदेशः, बिहारः, मध्यप्रदेशः, राजस्थानम्, पश्चिमबङ्गः, ओडिशा, कर्नाटकम्, तेलङ्गाना, तमिलनाडुः, हिमाचलप्रदेशः, उत्तराखण्डः, मिजोरमः, सिक्किम् तथा पुदुच्चेरी च सन्ति।
एतेषु १४ राज्येषु केन्द्रशासितप्रदेशेषु च २०२७ तमस्य वर्षस्य दिसम्बरमासस्य ३१ दिनाङ्कपर्यन्तं कुलं ३,५७,११२ ग्रामीणयुवानां प्रशिक्षणस्य स्वीकृतं लक्ष्यं निर्धारितम् अस्ति। अद्यावधि २४ राज्यैः केन्द्रशासितप्रदेशैः च १,२०० तः अधिकानां परियोजनानां अन्तर्गतं कुलं ५.६ लक्षग्रामीणयुवानां प्रशिक्षणस्य लक्ष्यं वितरितम् अस्ति।
उल्लेखनीयं यत् डीडीयू जीकेवाई योजना ग्रामीणनिर्धनयुवभ्यः रोजगारसम्बद्धं कौशलप्रशिक्षणं प्रददाति। अस्याः योजनायाः प्रशिक्षणावधिः त्रिमासात् द्वादशमासपर्यन्तं भवति। डीडीयू जीकेवाई २.० एकीकृतं पोर्टलमपि अस्ति, यत् परियोजनायाः सरलीकरणाय, अधिकदक्षतायै, पारदर्शितायै तथा अङ्कीयनिरीक्षणस्य प्रवर्धनाय च समर्थं भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani