Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 सितंबरमासः (हि.स.)। ‘बारापुला फेज्-३’ मार्गस्य उद्घाटनं करिष्यति। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः २९ सितम्बरदिने ‘बारापुला’ (बाबा बन्दासिंहबहादुरसेतुः) इति तृतीयचरणस्य मार्गस्य उद्घाटनं करिष्यति। अनेन परियोजनायाः पूर्णतया सम्पन्नतया अखिलभारतीयायुःविज्ञानसंस्थानात् (एम्स) मयूरविहारप्रथमचरणपर्यन्तं प्रत्यक्षसम्पर्कः स्थापितो भविष्यति।
दिल्लीसर्वकारस्य लोकनिर्माणविभागस्य मन्त्री प्रवेशसाहिबसिंहः शनिवासरे ‘बारापुला फेज्-३’ परियोजनायाः निरीक्षणं कृत्वा अवदत् यत् केन्द्रीयगृहमन्त्री अमितशाहः २९ सितम्बरदिने ‘बारापुला फेज्-३’ इत्यस्य उद्घाटनं करिष्यति। अनेन चिरकालात् स्थगिता एषा परियोजना पूर्णतां गमिष्यति। सामाजिकसञ्चारमाध्यमस्य ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे सः उक्तवान् यत् यः प्रकल्पः वर्षाणि यावत् स्थगितः आसीत्, सः दिल्लीस्थया भारतीयजनतापार्टीसर्वकारेण केवलं सार्धैकवर्षे पूर्णः कृतः। अनेन दिल्लीस्य आधारभूतसंरचनायाः सम्पर्कव्यवस्थायाश्च महत्त्वपूर्णः विकासः भविष्यति।
सः अवदत् यत् मुख्यमन्त्रिण्याः रेखागुप्तायाः नेतृत्वे दीर्घकालात् लम्बिताः परियोजनाः इदानीं निर्धारितसमये पूर्णाः क्रियमाणाः सन्ति तथा तासां कार्यान्वयनाय विशेषं ध्यानं दीयते।
उल्लेखनीयं यत् अस्याः परियोजनायाः प्रमुखः उद्देशः पूर्वीदिल्लीतः दक्षिणदिल्ल्याः मध्ये निर्बाधसम्पर्कव्यवस्थायाः स्थापना अस्ति। सङ्केतरहितमार्गस्य माध्यमेन मयूरविहारप्रथमचरणं अखिलभारतीयायुःविज्ञानसंस्थानेन सह संयोजयितुं परियोजना क्रियान्विता अस्ति। अयं नूतनः उड्डयनसेतुः सरायकालेखाने विद्यमानेन बारापुलाप्रथमचरणस्य उड्डयनसेतुना सह संयोजितः भविष्यति, येन प्रायः नवकिलोमीटरमितः मार्गः पूर्णतां गमिष्यति।
बारापुलापरियोजना दिल्लीस्य बहुचरणात्मिका नगरीयाधारभूतसंरचनापरियोजना अस्ति। अस्याः उद्देशः पूर्वीदिल्लीतः दक्षिणदिल्ल्याः प्रति द्रुतं सङ्केतरहितं च सम्पर्कं प्रदातुम् अस्ति। अस्याः प्रथमचरणं २०१० तमे वर्षे राष्ट्रमण्डलक्रीडासमये सरायकालेखानतः जवाहरलालनेहरुक्रीडाङ्गणपर्यन्तं निर्मितम्। द्वितीयचरणं २०१८ तमे वर्षे आईएनएमार्केटतः अरविन्दमार्गपर्यन्तं विस्तारितम्। तृतीयचरणं २०२६ तमे वर्षे पूर्णं जातम्, यत् मयूरविहारं सरायकालेखानेन अखिलभारतीयायुःविज्ञानसंस्थानेन च सह संयोजयति।
प्रायः सार्धत्रिकिलोमीटरमिते अस्मिन् सम्पर्कमार्गे अष्ट सोपानमार्गाः, सायकलयानमार्गः आधुनिकरचनाशैली च अन्तर्भवन्ति। परियोजनया यात्रासमयः ३५ तः ४० निमेषेभ्यः न्यूनीभूय प्रायः १५ निमेषपर्यन्तं जातः। अनेन रिङ्गरोड्, डीएनडी उड्डयनमार्गः, राष्ट्रियमार्गः २४ इत्येषु च यातायातस्य सम्मर्दः न्यूनीभविष्यति।
भूम्यधिग्रहणस्य प्रशासनिकविघ्नानां च कारणेन अस्याः परियोजनायाः कार्ये प्रायः नववर्षाणां विलम्बः अभवत्। परियोजनायाः व्ययः अपि वर्धित्वा १६३५ कोटिरूप्यकाणि यावत् प्राप्तः।
अस्याः परियोजनायाः नाम मुगलकालीनबारापुलासेतुना सम्बद्धम् अस्ति। अयं सेतुः सप्तदशशताब्द्यां जहाँगीरस्य शासनकाले मिहरबानूआगया निर्मापितः आसीत्। अनन्तरं अस्य नाम ‘बाबा बन्दासिंहबहादुरसेतुः’ इति परिवर्तितम्। दिल्लीसर्वकारेण ८ जून २०१६ तमे वर्षे उपमुख्यमन्त्रिणः मनीषसिसोदियायाः अध्यक्षतायां सम्पन्नायां राज्यनामकरणप्राधिकरणस्य उपवेशने एतत् निर्णयं कृतम्।
तस्मिन् समये बाबा बन्दासिंहबहादुरस्य बलिदानस्य त्रिशततमं वर्षं पूर्णं भवति स्म। दीर्घकालात् दिल्लीस्थस्य कस्यचित् प्रमुखप्रकल्पस्य तेषां नाम्ना सम्बन्धीकरणस्य मागः अपि क्रियमाणः आसीत्। यतः तेषां बलिदानं दिल्लीस्थे महरौलीक्षेत्रे अभवत् तथा तत्र तेषां नाम्ना गुरुद्वारमपि विद्यते, अतः अस्य उड्डयनसेतोरपि तेषां नाम्ना सम्बन्धीकरणेन न केवलं यातायातसुविधायाः ऐतिहासिकमहत्त्वं वर्धितम्, अपि तु दिल्लीस्य सांस्कृतिकस्मृतेः अपि सम्मानः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani