दिल्लीमुख्यमन्त्रिण्या पञ्जाबस्थिते गुरुद्वारा श्रीज्योतिस्वरूपसाहिब इत्याख्ये गुरुद्वारे शिरो नत्वा श्रद्धा समर्पिता।
नव दिल्ली, 19 सितंबरमासः (हि.स.)। दिल्लीस्य मुख्यमन्त्रिणी रेखा गुप्ता शनिवासरे पञ्जाबस्थिते श्रीफतेहगढसाहिबस्थे गुरुद्वारा श्रीज्योतिस्वरूपसाहिब इत्याख्ये गुरुद्वारे शिरो नत्वा श्रद्धां समर्पितवती। सा अवदत् यत् वीरसाहिबजादानां माता गुजरीदेव्या
दिल्ली की मुख्यमंत्री रेखा गुप्ता आज पंजाब स्थित श्री फतेहगढ़ साहिब में गुरुद्वारा श्री ज्योति सरूप साहिब में शीश नवाया हुए


नव दिल्ली, 19 सितंबरमासः (हि.स.)।

दिल्लीस्य मुख्यमन्त्रिणी रेखा गुप्ता शनिवासरे पञ्जाबस्थिते श्रीफतेहगढसाहिबस्थे गुरुद्वारा श्रीज्योतिस्वरूपसाहिब इत्याख्ये गुरुद्वारे शिरो नत्वा श्रद्धां समर्पितवती। सा अवदत् यत् वीरसाहिबजादानां माता गुजरीदेव्याश्च बलिदानस्मृतीभिः सम्बद्धा एषा पावना भूमिः त्यागस्य, तपस्यायाः, साहसस्य, धर्मनिष्ठायाश्च अमरप्रेरणास्रोतः अस्ति।

मुख्यमन्त्रिणी गुरोः चरणयोः पञ्जाबस्य सुखसमृद्ध्यै, कल्याणाय, प्रत्येकस्य परिवारस्य हिताय च प्रार्थितवती। सा अवदत् यत् वाहेगुरोः कृपा सर्वेषु निरन्तरं वर्तताम् तथा सेवा, सत्यं सद्भावश्च अस्माकं जीवनं सदैव सम्यग्दिशं प्रति प्रेरयन्तु।

मुख्यमन्त्रिणी वार्ताहरैः सह वार्तालापे अवदत् यत् अद्य तया गुरुसाहिबस्य समीपे प्रार्थना कृता यत् सः पञ्जाबवासिभ्यः राज्ये प्रचलितानाम् अत्याचाराणां मादकद्रव्यसमस्यायाश्च विरुद्धं एकीभूय संघर्षं कर्तुं शक्तिं प्रददातु। अस्माभिः पञ्जाबस्य तस्य युववर्गस्य च सुरक्षां सुनिश्चितं कर्तव्यम्। अस्मिन् संघर्षे सम्पूर्णं राष्ट्रं पञ्जाबस्य पार्श्वे स्थितम् अस्ति।

उल्लेखनीयं यत् दिल्ल्याः मुख्यमन्त्रिणी अद्य ‘नशामुक्तपञ्जाबयात्रा’ इत्यस्यां यात्रायां सम्मिलितुं पञ्जाबं प्राप्तवती अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani