दिल्लीविश्वविद्यालयस्य छात्रसङ्घनिर्वाचने अखिलभारतविद्यार्थीपरिषदः विजयाय धर्मेन्द्रप्रधानः कार्यकर्तृभ्यः शुभकामनाः अयच्छत्
भुवनेश्वरम्, १९ सेप्टेम्बरमासः (हि.स.)। पूर्वकेन्द्रीयशिक्षामन्त्री तथा सम्बलपुरस्य सांसदः धर्मेन्द्रप्रधानः दिल्ली-विश्वविद्यालयस्य छात्रसङ्घस्य निर्वाचने अखिलभारतीयविद्यार्थिपरिषदः विजयाय कार्यकर्तृभ्यः अभिनन्दनं कृतवान्। तेन सामाजिकमाध्यमे ‘एक्स
धर्मेंद्र प्रधान


भुवनेश्वरम्, १९ सेप्टेम्बरमासः (हि.स.)। पूर्वकेन्द्रीयशिक्षामन्त्री तथा सम्बलपुरस्य सांसदः धर्मेन्द्रप्रधानः दिल्ली-विश्वविद्यालयस्य छात्रसङ्घस्य निर्वाचने अखिलभारतीयविद्यार्थिपरिषदः विजयाय कार्यकर्तृभ्यः अभिनन्दनं कृतवान्। तेन सामाजिकमाध्यमे ‘एक्स’ इत्यत्र सन्देशं प्रकाश्य अखिलभारतीय-विद्यार्थिपरिषदः कार्यकर्तृभ्यः विजयस्य शुभकामनाः प्रदत्ताः।

प्रधानः अवदत् यत् एषा सफलता छात्रशक्तेः उत्साहं, सङ्गठनं प्रति विश्वासं तथा राष्ट्रहिते यूनां प्रतिबद्धतां च प्रदर्शयति। तेन अखिलभारतीय-विद्यार्थिपरिषदः कार्यकर्तृभ्यः तेषां सफलतायै हार्दिक्यः शुभकामनाः अभिनन्दनं च प्रदत्तम्।

सः विश्वासं व्यक्तवान् यत् अखिल-भारतीयविद्यार्थिपरिषद् छात्रहिताय समर्पणभावेन निरन्तरं कार्यं करिष्यति तथा राष्ट्रनिर्माणे स्वस्य सकारात्मकां भूमिकां निरन्तरं निर्वक्ष्यति।

Hindusthan Samachar / Divya Ranjan