Enter your Email Address to subscribe to our newsletters

पटना, 19 सितम्बरमासः (हि.स.)।
बिहारे विद्यार्थिभ्यः उत्तमपरीक्षासुविधां प्रदातुं, विद्यालयेषु पठनपाठनकार्यं निर्बाधरूपेण प्रवर्तयितुं तथा परीक्षाणां संवेदनशीलप्रशासनिककार्याणां च कृते आधुनिकमूलभूतसंरचनां विकसितुं मुख्यमन्त्रिणः सम्राट् चौधरीवर्यस्य निर्देशानुसारं बिहारविद्यालयपरीक्षासमित्या राज्यस्य २९ जनपदेषु २९ बहुउद्देशीयानि अत्याधुनिकानि परीक्षाभवनानि सह वज्रगृहैः निर्मातुं कार्यवाही क्रियते। अस्याः परियोजनायाः कृते प्रायः ३३० कोटि ७ लक्ष १३ सहस्र ३४३ रूप्यकाणां व्ययः भविष्यति।
अस्य सम्बन्धे बिहारस्य विकासायुक्तः मिहिरकुमारसिंहः अवदत् यत् २७ जनपदेषु २९ स्थानेषु चतुस्तरीयाणि जी प्लस त्रि परीक्षाभवनानि सह वज्रगृहैः निर्मास्यन्ते। प्रत्येकं परीक्षाभवनस्य कृते प्रायः एकतः सार्धैक एकरपरिमिता भूमिः चिह्निता अस्ति। बिहारविद्यालयपरीक्षासमित्याः अध्यक्षस्य डॉ. त्यागराजन एस एम इत्यस्य नेतृत्वे समित्या परीक्षाव्यवस्थां अधिकं सुव्यवस्थितां आधुनिकां च कर्तुं दिशि एषा मूलभूतसंरचना विकसितुं क्रियते।
वर्तमानकाले बिहारलोकसेवायोगेन, बिहारकर्मचारीचयनायोगेन, बिहारप्राविधिकसेवायोगेन, बिहारपुलिसाधीनस्थसेवायोगेन तथा अन्यैः विभागैः आयोगैश्च जनपदस्तरे विविधाः परीक्षाः विद्यालयेषु महाविद्यालयेषु च आयोज्यन्ते। अतः समर्पितस्य परीक्षाभवनस्य उपलब्धतया परीक्षायोजनार्थं शिक्षणसंस्थानेषु निर्भरता न्यूनीभविष्यति।
एकस्मिन् काले ४००० परीक्षार्थिनां कृते सुविधा
प्रस्तावितेषु परीक्षाभवनेषु एकस्मिन् काले प्रायः ४००० परीक्षार्थिनः सीसीटीवीनिरीक्षणस्य अन्तर्गतं परीक्षां दातुं शक्नुवन्ति। परीक्षानन्तरम् एतेषु भवनेषु उत्तरपुस्तिकानां सुरक्षितं भण्डारणं कर्तुं शक्यते तथा एतानि मूल्याङ्कनकेन्द्ररूपेण अपि प्रयोजयितुं शक्यन्ते। आवश्यकतानुसारं उत्तरपुस्तिकानां बारकोडाङ्कनस्य स्कैनिङस्य च सुविधापि उपलब्धा कर्तुं शक्यते।
पूर्वमेव ०९ मण्डलीयमुख्यालयेषु परीक्षाभवनानि सञ्चालितानि
बिहारविद्यालयपरीक्षासमित्या राज्यस्य ०९ मण्डलीयमुख्यजनपदेषु पूर्वमेव परीक्षाभवनानि सह क्षेत्रीयकार्यालयैः निर्मितानि सन्ति। एतेषां भवनानां प्रयोगः ऑनलाइनपरीक्षाकेन्द्ररूपेण, अनावासीयनिःशुल्कप्रशिक्षणकेन्द्ररूपेण तथा समितेः क्षेत्रीयकार्यालयरूपेण च क्रियते। अधुना शेषेषु २९ जनपदेषु २९ परीक्षाभवनानि सह वज्रगृहाणां निर्माणेन राज्ये परीक्षायोजनार्थं समर्पितमूलभूतसंरचनायाः अधिकः विस्तारः भविष्यति।
पटनायाः बापूपरीक्षापरिसरः आधुनिकपरीक्षाव्यवस्थायाः उदाहरणम्
पटने स्थापितः बापूपरीक्षापरिसरः बिहारस्य बृहद्प्रमाणेन परीक्षाणाम् आयोजनाय विकसितायाः आधुनिकपरीक्षामूलभूतसंरचनायाः प्रमुखम् उदाहरणम् अस्ति। कुम्हरारस्थले स्थितस्य अस्य परीक्षापरिसरस्य उद्घाटनं वर्षे २०२३ तमे कृतम्। पञ्चस्तरीयः अयं परिसरः एकस्मिन् काले बहुसंख्याकानां परीक्षार्थिनां परीक्षायोजनक्षमतालक्ष्यं कृत्वा विकसितः अस्ति। बापूपरीक्षापरिसरे एकस्मिन् काले १६६०० अधिकानां परीक्षार्थिनां कृते परीक्षाव्यवस्था कर्तुं क्षमता अस्ति, यदा प्रायः ३५०० अभ्यर्थिनां कृते ऑनलाइनपरीक्षाम् आयोजयितुं शक्यते। परिसरे परीक्षासञ्चालनाय विशालैः परीक्षाकक्षैः सह सीसीटीवी आधारितानि निरीक्षणनियन्त्रणसुरक्षाव्यवस्थादीनि आधुनिकसुविधानि उपलब्धानि सन्ति।
वज्रगृहेन विद्यालयेषु पठनपाठनस्य निरन्तरतायै बलं प्राप्स्यते
एतेषु २९ स्थानेषु निर्मीयमाणेषु वज्रगृहेषु परीक्षाभ्यः आवश्यकसामग्रीणां गोपनीयसामग्रीणां च सुरक्षितं भण्डारणं कर्तुं शक्यते। आवश्यकतानुसारं निर्वाचनकार्यसम्बद्धानां संवेदनशीलसामग्रीणाम् अपि अत्र भण्डारणं कर्तुं शक्यते। अस्य प्रत्यक्षः लाभः शिक्षणसंस्थाभ्यः भविष्यति। निर्वाचनादीनां कार्याणां समये विद्यालयानां तथा अन्येषां शिक्षणसंस्थानां न्यूनोपयोगेन तत्र पठनपाठनकार्यं निरन्तरं प्रवर्तयितुं साहाय्यं भविष्यति तथा विद्यार्थिनां अध्ययनकार्ये भवितव्यः व्यवधानः न्यूनः कर्तुं शक्यते।
यस्मिन् विद्यालये वा महाविद्यालये परीक्षाभवनं सह वज्रगृहस्य निर्माणं भविष्यति, तस्मै संचालनार्थं भवनं समर्पयिष्यते। सम्बन्धितं विद्यालयं महाविद्यालयं वा स्वावश्यकतानुसारम् एतेषु भवनेषु विविधाः शैक्षणिकक्रियाः तथा आन्तरिकपरीक्षाः आयोजयितुं शक्नोति। एवं एतानि भवनानि केवलं परीक्षायोजनाय एव न, अपितु सम्बन्धितानां शिक्षणसंस्थानानां कृते अपि उपयोगीनि बहुउद्देशीयसुविधाकेन्द्राणि भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani