चिखलीस्थले नवनिर्मितस्य उपजिलाचिकित्सालयस्य लोकार्पणम्
नवसारी, 19 सितंबरमासः (हि.स.)। गुजरातस्य नवसारीजनपदस्य चिखलीस्थले नवनिर्मितस्य उपजिलाचिकित्सालयस्य एसडीएच लोकार्पणं केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटीलेन कृतम्। चिकित्सालयस्य निर्माणं गुजरातसर्वकारस्य स्वास्थ्यपरिवारकल्याणविभागेन कारितम् अस्ति।
नवनिर्मित उप-जिला अस्पताल का लोकार्पण करते हुए केंद्रीय जलशक्ति मंत्री सी आर पाटिल


नवसारी, 19 सितंबरमासः (हि.स.)।

गुजरातस्य नवसारीजनपदस्य चिखलीस्थले नवनिर्मितस्य उपजिलाचिकित्सालयस्य एसडीएच लोकार्पणं केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटीलेन कृतम्। चिकित्सालयस्य निर्माणं गुजरातसर्वकारस्य स्वास्थ्यपरिवारकल्याणविभागेन कारितम् अस्ति। अस्मिन् अवसरे सी. आर. पाटीलेन उक्तं यत् चिखलीस्थस्य समीपवर्तिनां ग्रामीणक्षेत्राणां च नागरिकेभ्यः उत्तमाः आधुनिकाः च स्वास्थ्यसुविधाः स्थानीयस्तरे एव उपलब्धाः भवेयुः इत्युद्देश्येन एतत् अत्याधुनिकं चिकित्सालयं प्रारब्धम् अस्ति। अनेन क्षेत्रस्य जनानां चिकित्सार्थं दूरं गन्तव्यं न भविष्यति तथा तेभ्यः महती सुविधा प्राप्स्यते।

लोकार्पणसमारोहे गुजरातसर्वकारस्य मन्त्री नरेशभाई पटेलः, प्रफुलभाई पानसेरियाः, नवसारीजनपदस्य भाजपाध्यक्षः भूराभाई शाहः, जिलापञ्चायताध्यक्षा निरालीबेन नायकः, जिलाधिकारी मनीष गुरवाणी तथा जिलाविकासाधिकारी कार्तिक जीवाणी इत्येतेभ्यः सह अन्ये गणमान्याः जनाः, पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani