Enter your Email Address to subscribe to our newsletters


पूर्वी सिंहभूमः, 19 सितंबरमासः (हि.स.)।सीएसआईआर राष्ट्रियधातुकर्मप्रयोगशालायाम् अर्थात् एनएमएल इत्यत्र कार्यालयीयकार्यप्रणालीं अधिकपारदर्शिनीं सुव्यवस्थितां कागदरहितां च कर्तुं दिशि ई कार्यालयस्य प्रयोगसम्बद्धं प्रशिक्षणकार्यक्रमं शनिवासरे आयोजितम्। सतर्कताजागरूकता २०२६ तथा स्वच्छतैव सेवा २०२६ अभियानयोः अन्तर्गतं आयोजिते अस्मिन् कार्यक्रमे अधिकारिभ्यः कर्मचारिभ्यश्च अङ्कीयमाध्यमेन शासकीयकार्याणां सम्पादनस्य समयबद्धनिस्तारणस्य च विषये सूचना प्रदत्ता।
कार्यक्रमस्य प्रारम्भः सामान्यविभागस्य अनुभागाधिकारिणा वेदप्रकाशेन सम्बोधनेन अभवत्। ततः एनएमएल संस्थानस्य निदेशकः डॉ. सन्दीपघोषचौधुरी स्वागतभाषणं कृतवान्। सः कार्यालयीयकार्येषु आधुनिकप्रौद्योगिक्याः प्रयोगस्य आवश्यकतायाः विषये बलं दत्त्वा अवदत् यत् अङ्कीयप्रणाल्या कार्याणां निरीक्षणं निस्तारणं च अधिकं प्रभावपूर्णं कर्तुं शक्यते।
अस्मिन् अवसरे शनिवासरे वैज्ञानिक जी डॉ. वी.सी. श्रीवास्तवः सतर्कताजागरूकतासप्ताहस्य २०२६ इत्यस्य उद्देश्यानां विषये सूचना प्रदत्तवान्। अपरत्र वैज्ञानिक जी तथा स्वच्छतैव सेवायाः अध्यक्षः डॉ. गोपीकिशोरमण्डलः स्वच्छस्य सुव्यवस्थितस्य च कार्यालयीयवातावरणस्य महत्त्वे प्रकाशं नीतवान्।
प्रशिक्षणसत्रे सीएसआईआर मुख्यालयस्य अवरसचिवः अभिषेकचन्द्रः ई कार्यालयप्रणाल्याः विभिन्नान् पक्षान् विस्तरेण अवगमितवान्। तेन अङ्कीयप्रपत्राणां सञ्चालनम्, प्रलेखानां जालमाध्यमेन निस्तारणम्, कार्याणां समयबद्धनिरीक्षणं तथा कार्यालयीयप्रक्रियासु पारदर्शितां स्थापयितुं विधयः विशदीकृताः। प्रशिक्षणस्य समये प्रतिभागिभ्यः ई कार्यालयस्य व्यावहारिकप्रयोगस्य विषये अपि सूचना प्रदत्ता।
कार्यक्रमे एनएमएलस्य विभिन्नविभागानां अधिकारिणः कर्मचारिणश्च सहभागितां कृतवन्तः। प्रतिभागिभिः ई कार्यालयसम्बद्धां सूचनां प्राप्तवद्भिः अङ्कीयकार्यप्रणालीसम्बद्धाः स्वजिज्ञासाः अपि प्रस्तुताः।
---------------
Hindusthan Samachar / Dheeraj Maithani