जोशीमठे अस्मिन्नेव मासे पञ्चदशकोट्यधिकैकशतकोटिरूप्यकाणां मलजलनिष्कासनस्य पेयजलस्य च कार्याणि प्रारप्स्यन्ते।
३८५८ मलजलनिकाससम्बद्धाः २७०१ पेयजलसम्बद्धाश्च संयोजनानि प्रदास्यन्ते। चत्वारः नूतनाः जलाशयाः त्रि एमएलडी क्षमतायुक्तः मलजलशोधनसंयन्त्रश्च निर्मीयेताम्। गोपेश्वरम्, १९ सितम्बरमासपः (हि.स.)। जोशीमठे मलजलनिकासव्यवस्थां पेयजलव्यवस्थां च सुदृढीकर्तुं प
जोशीमठ सीवरेज की समीक्षा करते हुए डीएम चमोली।


३८५८ मलजलनिकाससम्बद्धाः २७०१ पेयजलसम्बद्धाश्च संयोजनानि प्रदास्यन्ते। चत्वारः नूतनाः जलाशयाः त्रि एमएलडी क्षमतायुक्तः मलजलशोधनसंयन्त्रश्च निर्मीयेताम्।

गोपेश्वरम्, १९ सितम्बरमासपः (हि.स.)। जोशीमठे मलजलनिकासव्यवस्थां पेयजलव्यवस्थां च सुदृढीकर्तुं प्रायः ११५ कोटिरूप्यकाणां परियोजनायाः निर्माणकार्याणि अस्मिन्नेव मासे प्रारप्स्यन्ते। जिलाधिकारी गौरवकुमारः शनिवासरे परियोजनायाः समीक्षां कुर्वन् सम्बन्धितविभागेभ्यः सर्वाणि आवश्यकानि अनुमोदनानि अनापत्तिप्रमाणपत्राणि च एकसप्ताहाभ्यन्तरे पूर्णानि कृत्वा निर्माणकार्याणि प्रारब्धुं निर्देशान् दत्तवान्। परियोजनायाः अन्तर्गतं क्षेत्रे ३८५८ मलजलनिकाससंयोजनानि २७०१ पेयजलसंयोजनानि च प्रदास्यन्ते। सर्वेषां कार्याणां मार्च २०२९ पर्यन्तं पूर्णत्वस्य लक्ष्यं निर्धारितम् अस्ति।

परियोजनायां चतस्रः नूतनाः पेयजलटङ्क्यः निर्मास्यन्ते, पुरातनानां टङ्कीनां पुनरुद्धारं करिष्यते, त्रि एमएलडी क्षमतायुक्तस्य मलजलशोधनसंयन्त्रस्य स्थापना करिष्यते तथा मलजलनिकासस्य गृहसेवासंयोजनस्य च सम्बन्धितानि कार्याणि सम्पादयिष्यन्ते। अनेन जोशीमठस्य दीर्घकालतः समस्यारूपेण विद्यमानायाः मलजलनिकासव्यवस्थायाः पेयजलव्यवस्थायाश्च सुधाराय सहायता भविष्यति।

जिलाधिकारी महोदयेन अधिकारिभ्यः निर्देशः दत्तः यत् बदरीनाथधामयात्रामार्गे निर्माणकार्यस्य समये विभागाः परस्परसमन्वयेन कार्यं कुर्युः, येन स्थानीयजनानां श्रद्धालूनां च कापि असुविधा न भवेत्। मार्गे मलजलनिकासस्य जलनिष्कासनव्यवस्थायाश्च कृते खननकार्ये क्रियमाणे पाइपलाइनस्थापनं मार्गपुनर्स्थापनं च युगपत् कर्तुं निर्देशितम्, येन मार्गः दीर्घकालं यावत् बाधितः न भवेत्।

त्रि एमएलडी क्षमतायुक्तस्य मलजलशोधनसंयन्त्रस्य कृते भूमिचयनस्य दायित्वं जोशीमठस्य उपजिलाधिकारिणे समर्प्य जिलाधिकारिणा भूवैज्ञानिकसर्वेक्षणस्य अनन्तरमेव सर्वेषां निर्माणकार्याणां कृते उपयुक्तभूमेः चयनं कर्तुं बलं दत्तम्। निर्माणकार्येण निष्पद्यमानस्य मलवस्तुनः निस्तारणाय नियमानुसारं निक्षेपणक्षेत्रमपि चिह्नितं करिष्यते।

जिलाधिकारिणा जलसंस्थानाय परियोजनायाः नियमितनिरीक्षणं कर्तुं तथा निर्माणकार्यस्य समये वर्तमानपेयजलापूर्तिव्यवस्था प्रभाविताः न भवेत् इति सुनिश्चितं कर्तुं निर्देशः दत्तः। तेन सर्वेभ्यः सम्बन्धितविभागेभ्यः समयबद्धतया गुणवत्तापूर्णकार्यं पूर्णं कर्तुं निर्देशाः प्रदत्ताः।

अस्मिन् अवसरे अपरजिलाधिकारी विवेकप्रकाशः, जोशीमठस्य उपजिलाधिकारी चन्द्रशेखरवशिष्ठः, जिलाआपदाप्रबन्धनाधिकारी नन्दकिशोरजोशी सहिताः यूयूएसडीए, जलनिगम, सिञ्चाईविभागस्य अन्येषां च विभागानां अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani