Enter your Email Address to subscribe to our newsletters

हुब्बल्ली, १९ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः शुक्रवासरे विलम्बेन रात्रौ हुब्बल्ली इत्यत्र प्राप्तवान्। सः अद्य कर्णाटके आयोजितेषु विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति। अमितशाहस्य कर्णाटकयात्रायाः सम्बन्धे तस्य कार्यालयस्य आधिकारिकसामाजिक-माध्यममञ्चे ‘एक्स’-मध्ये सूचना प्रकाशिता अस्ति।
हुब्बल्ल्याः एकस्मिन् निजीविश्रामगृहे स्थितः अमितशाहः प्रातः ११ वादने हुब्बल्ली इत्यत्र केएलई-संस्थायाः नवनिर्मितस्य चिकित्सामहाविद्यालयभवनस्य चिकित्सा-लयस्य च उद्घाटनं करिष्यति। ततः सः विशेषविमानेन महाराष्ट्रस्य कोल्हापुरं गमिष्यति। तत्रतः सः स्थलमार्गेण बेलगावी-जनपदस्य चिक्कोडी-तालुका-न्तर्गतं एक्सम्बाग्रामं प्राप्स्यति। तत्र अमितशाहः वीरेश्वर-सहकारी-ऋणसंस्थायाः नवनिर्मितस्य भवनस्य उद्घाटनं करिष्यति।
Hindusthan Samachar / Divya Ranjan