Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 सितंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् भारतः स्वस्य प्राचीनपर्यावरणीयचिन्तनं आधुनिकदृष्टिकोणेन सह संयोज्य जलवायुसम्बद्धानां चुनौतीनां समाधानं प्रददाति। भारतस्य विकासः द्रुततरः अपि अस्ति तथा स्थायित्वसम्पन्नः अपि। पर्यावरणसंरक्षणस्य क्षेत्रे भारतस्य प्रयासाः केवलं देशस्य विकासस्य आँकडाः न सन्ति, अपितु मानवतायाः भविष्याय तस्य योगदानस्य प्रमाणानि अपि सन्ति।
प्रधानमन्त्रिणा विज्ञानभवने राष्ट्रियहरिताधिकरणेन आयोजिते ‘द फ्यूचर ऑफ एनवायरनमेंट एण्ड क्लाइमेट डायनेमिक्स’ इति अन्तर्राष्ट्रीयसम्मेलने सम्बोधनं कुर्वता एतदुक्तम्। प्रधानमन्त्री अवदत् यत् प्रकृतेः पर्यावरणस्य च विषये भारतः शताब्दिभ्यः विश्वस्य मार्गदर्शनं कृतवान् अस्ति। स्वपरम्पराणां सांस्कृतिकानुभवानां च आधारेण भारतः आधुनिकजलवायुसम्बद्धानां चुनौतीनां समाधानानि प्रददाति तथा मानवतायाः सामूहिकप्रयत्नानाम् आह्वानं करोति। सम्मेलनस्य आयोजनाय राष्ट्रियहरिताधिकरणस्य पदाधिकारिभ्यः सम्बद्धेभ्यः सर्वेभ्यश्च सः अभिनन्दनं प्रदत्तवान्।
सः अवदत् यत् कार्बन-उत्सर्जनस्य दायित्वं प्रायः अशुद्धरूपेण विकासशीलदेशेषु आरोपितं भवति। ऐतिहासिकं तथ्यं तु एतत् अस्ति यत् अद्यापि प्रतिव्यक्तिकार्बन-उत्सर्जने भारतस्य योगदानं वैश्विकसरासरीमानात् अर्धादपि न्यूनम् अस्ति। विकसितदेशेषु भारतस्य तुलनया प्रतिव्यक्तिकार्बन-उत्सर्जनं प्रायः षड्गुणितम् अधिकम् अस्ति। भारतः एतं तथ्यं वैश्विकमञ्चेषु दृढतया स्थापयति।
मोदी अवदत् यत् भारतः विश्वं सह नीत्वा पर्यावरणसुरक्षायाः नूतनानि मानदण्डानि स्थापयति। ‘वन सन, वन वर्ल्ड, वन ग्रिड’, अन्तर्राष्ट्रीयसौरगठबन्धनम्, आपदारोधिसंरचनायै गठबन्धनम् अर्थात् सीडीआरआई, वैश्विकजैवईन्धनगठबन्धनम्, अन्तर्राष्ट्रीयबिगकैटगठबन्धनम् तथा मिशन लाइफ इत्यादयः मञ्चाः जलवायोः पर्यावरणस्य च प्रति भारतस्य प्रतिबद्धतां सुदृढां कुर्वन्ति।
सः अवदत् यत् विगतेषु द्वादशवर्षेषु पर्यावरणसम्बद्धस्य प्रत्येकस्य क्षेत्रस्य भारतः उल्लेखनीयां प्रगतिं कृतवान्। द्वादशवर्षपूर्वं देशस्य सौरऊर्जाक्षमता प्रायः द्विगिगावाट् आसीत्, या अधुना १६० गिगावाट् इत्यधिकं जाता अस्ति। प्रधानमन्त्री सूर्यघरमुफ्तविद्युत्योजनायाः अन्तर्गतं पञ्चाशल्लक्षाधिकेषु गृहेषु छत्सौरपट्टिकाः स्थापिताः सन्ति। पीएम कुसुमयोजनायाः अन्तर्गतं त्रिंशल्लक्षेषु कृषकाणां क्षेत्रेषु सौरपम्पाः स्थापिताः सन्ति। प्रधानमन्त्री अवदत् यत् केवलं सौरऊर्जया प्रायः विंशतिकोटिटनपरिमितस्य कार्बन-उत्सर्जनस्य निवारणे सफलता प्राप्ता अस्ति।
प्रधानमन्त्री अवदत् यत् विगतेषु द्वादशवर्षेषु देशस्य पवनऊर्जाक्षमता त्रिगुणिता अभवत् तथा जलविद्युत्क्षेत्रेऽपि वृद्धिः अभवत्। जीवाश्मेतरऊर्जाक्षमता प्रायः चतुर्गुणिता अभवत्। भारतः कोयलस्य अधिकस्वच्छोपयोगाय कोयलवायवीकरणम् इत्यादीनां प्रौद्योगिकीनां प्रोत्साहनं करोति तथा परमाणुऊर्जाक्षेत्रेऽपि तीव्रगत्या कार्यं प्रचलति।
मोदी अवदत् यत् स्वच्छपरिवहनस्य हरितहाइड्रोजनस्य च क्षेत्रेऽपि भारतः द्रुतगत्या अग्रे गच्छति। देशस्य प्रथमं हाइड्रोजनरेलयानं प्रारब्धम् अस्ति। विगतेषु द्वादशवर्षेषु विद्युत्वाहनानां विक्रये प्रायः ९५० गुणिता वृद्धिः अभवत्। २०१४ तमवर्षात् पूर्वम् एकस्मिन् वर्षे त्रिसहस्रादपि न्यूनानि विद्युत्वाहनानि विक्रीयन्ते स्म, किन्तु गतवर्षे प्रायः २५ लक्षविद्युत्वाहनानि विक्रीतानि।
सः अवदत् यत् २०१४ तमवर्षपर्यन्तं पञ्चसु नगरेषु प्रायः २५० किलोमीटरपरिमितः मेट्रोरेलमार्गः आसीत्, अधुना तु विंशत्यधिकेषु नगरेषु मेट्रोरेलयानानि प्रचलन्ति तथा देशस्य मेट्रोरेलजालं सहस्रकिलोमीटरतः अधिकं विस्तृतम् अस्ति। रेलमार्गस्य प्रायः शतप्रतिशतं विद्युतीकरणेन कोटिलिटरपरिमितस्य डीजलस्य उपभोगः संरक्षितः अस्ति। प्रायः त्रिसहस्रकिलोमीटरदीर्घे समर्पिते मालवाहनमार्गे प्रचलन्त्यः मालवाहनरेलयानानि एकस्मिन् समये शतशः ट्रकयानानां तुल्यं मालभारं वहन्ति। प्रायः पञ्चसहस्रकिलोमीटरदीर्घेषु जलमार्गेष्वपि परिवहनं प्रारब्धम् अस्ति।
प्रधानमन्त्रिणा जलसंरक्षणक्षेत्रे कृतस्य कार्यस्य उल्लेखं कुर्वता उक्तं यत् देशे सप्ततिसहस्राधिकानि अमृतसरोवराणि निर्मितानि सन्ति। ‘कैच द रेन’ अभियानस्य अन्तर्गतं प्रायः सार्धकोटिसङ्ख्याकानि जलसञ्चयनसंरचनानि निर्मितानि सन्ति। प्रधानमन्त्री कृषिसिञ्चनयोजनायाः माध्यमेन द्विकोट्यधिकाः कृषकाः आधुनिकसिञ्चनसुविधाभिः सम्बद्धाः सन्ति। ‘प्रति बिन्दु अधिकं फसलम्’ इति अभियानस्य माध्यमेन जलसंरक्षणं भवति।
सः अवदत् यत् श्रीअन्नम् इत्याख्याः फसलाः न्यूनजलोपभोगयुक्ताः भवन्ति। भारतदेशे मिलेट् धान्यानां उत्पादनं निर्यातश्च वर्धितौ स्तः तथा तेषां निर्यातः प्रायः सार्धलक्षटनपरिमाणं प्राप्तवान् अस्ति। भारतस्य प्रयत्नानां फलस्वरूपं २०२३ तमं वर्षम् अन्तर्राष्ट्रीयमिलेट् वर्षरूपेण आचरितम्।
मोदी अवदत् यत् प्राकृतिककृषेरपि प्रोत्साहनं दीयते। देशे प्राकृतिककृषेः २४,००० समूहाः निर्मिताः सन्ति तथा जलवाय्वनुकूलानां फसलानां प्रायः ३,००० प्रजातयः विकसिताः सन्ति। विगतेषु द्वादशवर्षेषु अतिघनवनक्षेत्रे २२ प्रतिशतादधिकं वृद्धिः अभवत्। ‘एकं वृक्षं मातुः नाम्ना’ इति अभियानस्य अन्तर्गतं कोटिशः वृक्षाः रोपिताः सन्ति।
सः अवदत् यत् भारतः एकवारप्रयोग्यप्लास्टिकस्य उपरि प्रतिबन्धं कृतवान् अस्ति तथा न्यूनीकरणम्, पुनरुपयोगः, पुनर्चक्रणं च इति त्रिभिः सिद्धान्तैः चक्रीयार्थव्यवस्थायाः प्रोत्साहनं कृतवान् अस्ति। गोवर्धनयोजनायाः माध्यमेन ग्रामेषु गोमयम् अन्यं च जैविकापशिष्टं उपयोगिसंसाधने परिवर्त्यते।
प्रधानमन्त्री अवदत् यत् भारतस्य सांस्कृतिकचिन्तने पृथिवी माता इति मन्यते। अस्याः भावनायाः अनुरूपं भारतः उत्तरदायित्वपूर्णस्य स्थायिभविष्यस्य निर्माणाय कार्यं करोति। सम्मेलनस्य चर्चाभ्यः प्रादुर्भवन्तः नवीनाः विचाराः समाधानानि च आगामिपीढीनां कृते आधारभूतानि भविष्यन्ति इति सः विश्वासं प्रकटितवान्।
कार्यक्रमे भारतस्य मुख्यन्यायाधीशः न्यायमूर्तिः सूर्यकान्तः, केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः, भारतस्य महान्यायवादी आर. वेङ्कटरमणी तथा राष्ट्रियहरिताधिकरणस्य अध्यक्षः न्यायमूर्तिः प्रकाशश्रीवास्तवः इत्यादयः अन्ये च गणमान्यजनाः उपस्थिताः आसन्। द्विदिवसीये सम्मेलने पर्यावरणविशेषज्ञाः, सर्वोच्चन्यायालयस्य उच्चन्यायालयानां च न्यायाधीशाः, जनपदन्यायाधीशाः, विभिन्नमन्त्रालयानां सचिवाः, वरिष्ठाधिकारिणः तथा सप्तदशदेशानां न्यायिकप्रतिनिधयः भागं गृहीतवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani