Enter your Email Address to subscribe to our newsletters

प्रधानमन्त्रिणा एकपञ्चाशत्सहस्राधिकेभ्यः युवभ्यः नियुक्तिपत्राणि प्रदत्तानि
नवदिल्ली, १९ सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे सर्वकारीयसेवायां प्रविशद्भ्यः युवभ्यः ‘नागरिको देवो भव’ इति स्वमन्त्रं कर्तुं आह्वानं कृतम्। सः अवदत् यत् नागरिकसेव एव राष्ट्रसेवा अस्ति तथा च सर्वकारीयकर्मचारिणां व्यवहारः, संवेदनशीलता, कार्यकुशलता, सत्यनिष्ठा च जनानां सर्वकारसम्बद्धानुभवं निर्धारयन्ति।
मोदिना विंशतितमे रोजगारमेलके दूरदृश्यसम्पर्कमाध्यमेन सम्बोधनं कुर्वता विविधेषु सर्वकारीयविभागेषु संस्थासु च नियुक्तेभ्यः एकपञ्चाशत्सहस्राधिकेभ्यः युवभ्यः नियुक्तिपत्राणि प्रदत्तानि। सः नवनियुक्तेभ्यः युवभ्यः तेषां परिवारेभ्यश्च अभिनन्दनं कृत्वा अवदत् यत् तेषां सफलतायां तेषां परिश्रमस्य सहैव माता पितृभ्यां परिवारेण च कृतस्य त्यागस्य अपि महती भूमिका अस्ति। अयं रोजगारमेलकः देशस्य ४५ स्थानेषु आयोजितः।
प्रधानमन्त्रिणा उक्तं यत् अद्य नियुक्तिपत्रं प्राप्यमाणाः युवानः तस्मिन् समये सर्वकारीयसेवायां प्रविशन्ति, यदा भारतं २०४७ तमवर्षपर्यन्तं विकसितराष्ट्रत्वस्य लक्ष्यं प्रति अग्रे गच्छति। सः युवभ्यः अवदत् यत् तेषां प्रत्येकं निर्णयः प्रत्येकं प्रयत्नश्च विकसितभारतस्य आत्मनिर्भरभारतस्य च सङ्कल्पं दृढतरं कुर्यात्।
सः अवदत् यत् भारतीययुवानां कौशलं प्रतिभा नवोन्मेषक्षमता च प्रति विश्वस्य विश्वासः वर्धते। भारतस्य युवानः विश्वस्य विभिन्नेषु क्षेत्रेषु स्वकीयं परिचयं निर्मान्ति तथा इदानीं तेषाम् एषा ऊर्जा क्षमता च लोकसेवायामपि दृश्येत। मोदिना उक्तं यत् युवभिः निरन्तरं शिक्षितव्यम् तथा नूतनप्रौद्योगिकीनां, नूतनव्यवस्थानां, परिवर्तमानानां आवश्यकतानां च अनुरूपं स्वयमेव सज्जीकर्तव्यम्।
प्रधानमन्त्रिणा सद्यः सम्पन्नस्य ब्रिक्सशिखरसम्मेलनस्य उल्लेखं कुर्वता उक्तं यत् भारतस्य इच्छा अस्ति यत् ब्रिक्सस्य सहकारिता केवलं सर्वकारेषु सीमिता न भवेत्, अपि तु उद्यमिनः कृषकाः महिलाः युवानश्च अस्याः सहकारितायाः सक्रियभागिनः भवन्तु। सः ब्रिक्स कनेक्ट तथा ब्रिक्स एमएसएमई सहकारपटलस्य अपि उल्लेखं कृतवान्।
मोदिना उक्तं यत् भारतं विगतेषु वर्षेषु प्रायः चत्वारिंशता देशैः सह मुक्तव्यापारसम्झौतान् कृतवान्, येन भारतीययुवभ्यः नूतनाः विपणयः, सहभागिताः, रोजगारावसराश्च उद्घाटिताः सन्ति। सर्वकारः युवानः भविष्यस्य आवश्यकतानां कृते सज्जीकर्तुं विशेषं बलं ददाति। राष्ट्रियशिक्षानीतिः, कौशलभारतम् अभियानम्, प्रधानमन्त्रिकौशलविकासयोजना, प्रशिक्षुताकार्यक्रमश्च अस्मिन् दिशि कृताः प्रयासाः सन्ति।
सः अवदत् यत् भारतं विश्वस्य तृतीयं बृहत्तमं नवोन्मेषारम्भपरितन्त्रं प्राप्तवान् अस्ति तथा मान्यताप्राप्तेषु नवोन्मेषारम्भेषु प्रायः अर्धाः द्वितीयतृतीयश्रेणीभ्यः नगरेभ्यः सन्ति। प्रधानमन्त्रिणा उक्तं यत् सर्वकारः युवभ्यः केवलं रोजगारान्वेष्टृन् न, अपि तु रोजगारप्रदातॄन् कर्तुं अवसरं वातावरणं च निर्माति।
प्रधानमन्त्रिणा ‘प्रधानमन्त्री विकसितभारत रोजगारयोजनायाः’ उल्लेखं कुर्वता उक्तं यत् अस्याः योजनायाः उद्देशः प्रायः द्विकोटियुवानः प्रथमवारं कार्यबलस्य भागिनः कर्तुं सहाय्यं करणम् अस्ति। सर्वकारस्य बलं नूतनरोजगारावसराणां निर्माणेन सह युवानः परिवर्तमानायाः अर्थव्यवस्थायाः अनुरूपं सज्जीकर्तुम् अस्ति।
मोदिना उक्तं यत् देशस्य अर्थव्यवस्थया चालूवित्तवर्षस्य प्रथमत्रैमासिके ७.८ प्रतिशतं वृद्धिः प्राप्ता। सुधाराणां गतिः अधिकतरा क्रियते तथा ‘सुधारद्रुतगतेः’ पूर्णशक्त्या अग्रे प्रवर्तनं क्रियते। करव्यवस्थायाः अनुपालनस्य च सरलीकरणम्, व्यवसायसौकर्यस्य वर्धनम्, शिक्षाक्षेत्रे कौशलक्षेत्रे च सुधारः तथा नवोन्मेषस्य प्रोत्साहनम् इत्यादीनां पदक्षेपाणाम् उद्देशः विकासस्य रोजगारावसराणां च गतिं वर्धयितुम् अस्ति।
प्रधानमन्त्रिणा नवनियुक्तेभ्यः सर्वकारीयकर्मचारिभ्यः उक्तं यत् ते यस्यां कस्यामपि पत्रिकायां हस्ताक्षरं कुर्वन्तु अथवा यं कमपि निर्णयं गृह्णन्तु, तत्र युवानाम् आकाङ्क्षाणां नागरिकानां आवश्यकतानां च ध्यानं ददतु। तेषां प्रयत्नः भवेत् यत् येषां समस्याभिः ते अथवा तेषां परिवारा कदाचित् पीडिताः अभवन्, तादृशीं समस्यां कश्चिदपि अन्यः नागरिकः न अनुभूयात्।
सः अवदत् यत् ‘मिशन कर्मयोगी’ इत्यस्य पटलस्य माध्यमेन एकसप्ततिकोट्यधिकाः सर्वकारीयकर्मचारिणः सम्बद्धाः अभवन् तथा ‘कर्मयोगी प्रारम्भः’ इत्यादयः कार्यक्रमाः नूतनकर्मचारिभ्यः तेषां दायित्वानां बोधनाय सहाय्यं कुर्वन्ति।
मोदिना उक्तं यत् सर्वकारस्य वास्तविकं सामर्थ्यं नागरिकानां विश्वासः अस्ति। अतः सर्वकारीयकर्मचारिणां प्रत्येकः व्यवहारः प्रत्येकश्च निर्णयः अस्य विश्वासस्य दृढीकरणं करणीयः। सः नवनियुक्तेभ्यः युवभ्यः अवदत् यत् ते सर्वकारीयसेवां केवलं वृत्तिरूपेण न मन्यन्ताम्, अपि तु तां देशस्य नागरिकानां च सेवायाः अवसररूपेण अवगच्छन्तु।
Hindusthan Samachar / Dheeraj Maithani