Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ सेप्टेम्बरमासः (हि.स.)। कनाडादेशस्य उच्चायुक्तः क्रिस्टोफरकूटरः शनिवासरे अत्र भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षेन नितिननवीनेन सह पक्षस्य मुख्यालये साक्षात्कारं कृतवान्। अस्यां साक्षात्कारवार्तायां द्वयोः देशयोः सम्बन्धानां तथा विभिन्नेषु क्षेत्रेषु सहयोगस्य सम्भावनानां विषये चर्चा अभवत्।
साक्षात्कारस्य अनन्तरं सामाजिकमाध्यमे ‘एक्स’ इत्यत्र छायाचित्राणि संस्थाप्य नितिननवीनः अवदत् यत् कनाडादेशस्य उच्चायुक्ताय भाजपायाः सङ्गठनात्मक-संरचनायाः, धरातलस्तरे पक्षस्य उपस्थितेः तथा कार्यकर्तॄणां, मोर्चानां विभागानां च भूमिकायाः विषये सूचना प्रदत्ता। तेन सप्तदशसेप्टेम्बरतः सप्तदश-अक्टूबर २०२६ पर्यन्तं प्रचलितस्य ‘सेवासङ्कल्पा-भियानस्य’ विषये अपि सूचितम्। तेन उक्तं यत् अस्य अभियानस्य केन्द्रबिन्दवः जनसेवा, जनसहभागिता, विकसित-भारत-२०४७, अङ्कीयपारिस्थितिकी-तन्त्रम् तथा अन्त्योदयः इति सन्ति।
सभायां भारत-कनाडादेशयोः सम्बन्धेषु सम्प्रति दृष्टानां सकारात्मक-परि-वर्तनानाम् अपि चर्चा अभवत्। कनाडा-देशस्य उच्चायुक्तेन कुशल-कार्यबलस्य आवागमनस्य, खननस्य ऊर्जायाः च, शिक्षायाः तथा महत्त्वपूर्णखनिजानां क्षेत्रेषु सहयोगस्य सम्भावनानां विषये प्रकाशः स्थापितः। तेन उभयोः देशयोः मध्ये सम्प्रति सम्पन्नानां आधिकारिणां क्षेत्रीयप्रतिनिधिमण्डलानां च आदान-प्रदानस्य विषये सूचनाः अपि प्रदत्ताः। अस्मिन् अवसरे भाजपायाः विदेशकार्यविभागस्य प्रभारी डॉ. विजय चौथाईवाले अपि उपस्थितः आसीत्।
Hindusthan Samachar / Divya Ranjan