नेपालस्य संविधानदिवसे भारतस्य विदेशमन्त्रिणा एस. जयशङ्करेण शुभकामना प्रदत्ता
काठमाण्डू, १९ सेप्टेम्बरमासः (हि.स.)। भारतस्य विदेशमन्त्री एस. जयशङ्करः नेपालस्य संविधानदिवसस्य अवसरे शुभकामनासन्देशं प्रदत्तवान्। सः सामाजिकमाध्यमस्य माध्यमेन विदेशमन्त्रिणः शिशिरखानालस्य नामोल्लेखं कृत्वा संविधानदिवसस्य अवसरे शुभकामनाः प्रदत्तवा
डा एस जयशंकर


काठमाण्डू, १९ सेप्टेम्बरमासः (हि.स.)। भारतस्य विदेशमन्त्री एस. जयशङ्करः नेपालस्य संविधानदिवसस्य अवसरे शुभकामनासन्देशं प्रदत्तवान्।

सः सामाजिकमाध्यमस्य माध्यमेन विदेशमन्त्रिणः शिशिरखानालस्य नामोल्लेखं कृत्वा संविधानदिवसस्य अवसरे शुभकामनाः प्रदत्तवान्। विदेशमन्त्री जयशङ्करः लिखितवान्— “नेपालस्य राष्ट्रियदिवसस्य अवसरे विदेशमन्त्रिणे शिशिरखानालाय, नेपालसर्वकाराय तथा समस्तेभ्यः नेपालीजनताभ्यः हार्दिक्यः शुभकामनाः मङ्गलकामनाश्च।”

सः इदमपि उल्लिखितवान् यत् भारतः उभयोः देशयोः मध्ये सम्बन्धान् अधिकं सुदृढीकर्तुं प्रतिबद्धः अस्ति। जयशङ्करेण उक्तम्— “वयं स्वस्य गाढां चिरस्थायिनीं च मैत्रीं अधिकं सुदृढीकर्तुं प्रतिबद्धाः स्मः।”

Hindusthan Samachar / Divya Ranjan