Enter your Email Address to subscribe to our newsletters

काठमाण्डू, १९ सेप्टेम्बरमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः उक्तवान् यत् एषः सर्वकारः संविधानं प्रति पूर्णतया प्रतिबद्धः अस्ति। संविधान-दिवसस्य अवसरे आयोजितस्य मुख्य-समारोहस्य सम्बोधनं कुर्वन् प्रधानमन्त्री शाहः उक्तवान्— “अस्य संविधानस्य अक्षरस्य भावनां प्रति एषः सर्वकारः पूर्णतया प्रतिबद्धः अस्ति।”
सः उक्तवान् यत् संविधानं यद्यपि कियत् अपि उत्तमं भवेत्, यदि तस्य सञ्चालनं कुर्वन्तः हस्ताः सत्याः निरन्तरं क्रियाशीलाः च न भवन्ति, तर्हि तत् केवलं कागदपत्ररूपेण एव अवशिष्यते। सः कथनं कृतवान् यत् सर्वकारः सुशासनस्य स्थापनायै भ्रष्टाचारस्य नियन्त्रणाय च कार्यं करोति। सः उक्तवान्— “अहं स्पष्टतया वदामि, एषः केवलम् आरम्भः अस्ति, अन्तः न। भ्रष्टाचारस्य दण्ड-हीनतायाश्च मूलानि गभीराणि सन्ति, किन्तु तानि मूलानि उन्मूलयितुं समर्थाः हस्ताः दृढाः सन्ति तथा संख्यायामपि अधिकाः सन्ति।” सः अग्रे उक्तवान्— “सर्वकारः एतद्विषये सचेतनः अस्ति यत् विकासाय सुशासनम् अनिवार्या पूर्वशर्ता अस्ति।”
सः सूचितवान् यत् सुशासनस्य निर्वहणाय प्रशासनिकसंरचनायाः उपयुक्तपरिमाणस्य निर्धारणं तथा भ्रष्टाचारस्य विरुद्धं ‘शून्यसहिष्णुता’ इति नीतिः स्वीकृता अस्ति।
Hindusthan Samachar / Divya Ranjan