प्रधानमन्त्रिणा सुभाषितं समर्पितम्, श्रेष्ठपुरुषस्य जीवनं परोपकाराय लोककल्याणाय च एव अभीष्टम्।
नवदिल्ली, 19 सितम्बरमासः ( हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे ‘एक्स’ इति सामाजिकमाध्यममञ्चे एकं सुभाषितं सहकृतवान्, यस्य भावार्थः अस्ति यत् श्रेष्ठपुरुषस्य जीवनं परोपकाराय लोककल्याणाय च एव अभिलषितं भवति। प्रधानमन्त्री मोदी ‘एक्स’ इति सामा
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, 19 सितम्बरमासः ( हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे ‘एक्स’ इति सामाजिकमाध्यममञ्चे एकं सुभाषितं सहकृतवान्, यस्य भावार्थः अस्ति यत् श्रेष्ठपुरुषस्य जीवनं परोपकाराय लोककल्याणाय च एव अभिलषितं भवति।

प्रधानमन्त्री मोदी ‘एक्स’ इति सामाजिकमाध्यममञ्चे संस्कृतस्य श्लोकं सहकृतवान्—

“स्वाधीनैव समृद्धिर्जनोपजीव्यत्वमुच्छ्रयश्छाया।

सत्पुंसो मरुभूरिख जीवनमात्रं समाशास्यम्॥”

अस्य श्लोकस्य भावार्थः अस्ति यत् स्वाधीना समृद्धिरेव वास्तविकं वैभवम् अस्ति तथा च अन्येषाम् आश्रयः आधारश्च भवितुमेव सच्चा महत्ता अस्ति। यथा मरुभूमौ छाया जीवनञ्च दुर्लभं वरदानं भवतः, तथैव श्रेष्ठपुरुषस्य जीवनं परोपकाराय लोककल्याणाय च एव अभीष्टं भवति।

अयं श्लोकः संस्कृतस्य प्रसिद्धे नीतिसङ्ग्रहग्रन्थे ‘सुभाषितरत्नभाण्डागारे’ सङ्कलितं पारम्परिकं मुक्तकसुभाषितम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani