Enter your Email Address to subscribe to our newsletters

उज्जयिन्याम्, १९ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे शनि-वासरे प्रातः भाद्रपदमासस्य शुक्ल-पक्षस्य अष्टमीतिथौ बाबा महाकालस्य भस्मारार्तिकी विधिविधान-पूर्वकं विशेष-शृङ्गारेण च सम्पन्ना।
प्रातः चतुर्वादने मन्दिरस्य कपाटो-द्घाटनानन्तरं गर्भगृहे पूजार्चना प्रारब्धा। पण्डितैः पूजारिभिश्च सर्वप्रथमं गर्भगृहे प्रतिष्ठितस्य भगवान् गणेशस्य, मातु: पार्वत्याः, भगवत: कार्तिकेयस्य च सहितं अन्येषां देवीदेवानां पूजनं कृतम्। ततः भगवत: महाकालस्य जलाभिषेकं कृत्वा पञ्चामृतेन अभिषेकः कृतः।
पञ्चामृते दुग्धं, दधि, घृतं, शर्करा, मधु तथा फलरसाः प्रयुक्ताः। एतैः पदार्थैः भगवत: महाकालस्य पूजनमभिषेकश्च कृतः। ततः प्रथमं घण्टानादं कृत्वा हरिओमजलम् अर्पितम्। मन्त्राणां सस्वरपाठस्य मध्ये भगवत: महाकालस्य ध्यानं पूजनं च कृतम्। भस्मारार्तिक्या: अग्रिमविधीनाम् अन्तर्गतं बाबा महाकालाय नैवेद्यं समर्पितं तथा कर्पूरारार्तिकी सम्पन्ना।
भाङ्ग-चन्दन-त्रिपुण्डकैः सुसज्जितं बाबा महाकालस्य स्वरूपम्
भस्मारार्तिक्या: समये भगवत: महाकालस्य विशेषशृङ्गारः कृतः। बाबामहाकालस्य मस्तके भाङ्गेन चन्दनेन च शृङ्गारं कृत्वा त्रिपुण्ड्रं धारितम् तथा त्रिशूलं समर्पितम्। भगवान् रजतमयेन ‘ॐ’-चिह्नेन, बिल्वपत्रमुकुटेन रुद्राक्षमालया च अलङ्कृतः। तेन सह शेषनागस्य रजतमुकुटं, रजतमुण्डमाला, विविधाः रुद्राक्षमालाश्च समर्पिताः। सुगन्धितपुष्पमालाभिश्च बाबा महाकालस्य विशेषमलङ्करणं कृतम्।
महानिर्वाणी-अखाडा इत्यनेन समर्पितं भस्म
पूजनशृङ्गारयोः अनन्तरं भस्मारार्तिक्या: मुख्यविधिः सम्पन्ना। अस्यां विधौ ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य महानिर्वाणी-अखाडस्य पक्षतः भगवते महाकालाय भस्म समर्पितम्। भस्म-समर्पणानन्तरं भक्तानां कृते बाबा महाकालस्य विशेषदर्शनस्य व्यवस्था कृता। धार्मिकमान्यतानुसारं भगवते महाकालाय भस्मसमर्पणानन्तरं सः निराकारस्वरूपात् साकारस्वरूपं धृत्वा भक्तेभ्यः दर्शनं ददाति। अस्याः मान्यतायाः कारणात् महाकालमन्दिरस्य भस्मारार्तिकी सम्पूर्णे देशे विशेष-धार्मिकमहत्त्वं वहति।
नन्दिनः कर्णे कथिताः मनोकामनाः, घोषिता जयघोषाः
भस्मारार्तिक्या: दर्शनार्थं प्रातःकाले बहुसङ्ख्यकाः श्रद्धालवः मन्दिरं प्राप्तवन्तः। श्रद्धालवः बाबा महाकालस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तः। तेन सह नन्दिमहाराजस्य दर्शनं कृत्वा तस्य कर्णे स्वकीयाः मनोकामनाः अपि निवेदितवन्तः। भस्मारार्तिक्या: समये मन्दिरपरिसरे श्रद्धालवः भगवत: महाकालस्य जयघोषान् निरन्तरं कृतवन्तः। भस्मारार्तिक्या: पूजनस्य च मध्ये सम्पूर्णं मन्दिरपरिसरं शिवभक्तेः वातावरणेन आपूरितं दृश्यते स्म।
Hindusthan Samachar / Divya Ranjan