राधाष्टम्यां मुख्यमन्त्रिणा, उपमुख्यमन्त्रिभिः सह अनेकेषां नेतॄणां प्रदेशवासिभ्यः शुभकामनाः प्रदत्ताः
भुवनेश्वरम्, 19 सितंबरमासः (हि.स.)। पवित्रायाः राधाष्टम्याः अवसरे मुख्यमन्त्री मोहनचरणमाझी, उपमुख्यमन्त्रिणी प्रभातीपरिडा तथा कनकवर्धनसिंहदेवः इत्येतेभिः सह अनेकेषां नेतॄणां प्रदेशवासिभ्यः हार्दिकशुभकामनाः प्रदत्ताः। मुख्यमन्त्री मोहनचरणमाझी इत्यन
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वरम्, 19 सितंबरमासः (हि.स.)। पवित्रायाः राधाष्टम्याः अवसरे मुख्यमन्त्री मोहनचरणमाझी, उपमुख्यमन्त्रिणी प्रभातीपरिडा तथा कनकवर्धनसिंहदेवः इत्येतेभिः सह अनेकेषां नेतॄणां प्रदेशवासिभ्यः हार्दिकशुभकामनाः प्रदत्ताः।

मुख्यमन्त्री मोहनचरणमाझी इत्यनेन सामाजिकमाध्यममञ्चे एक्स इत्यत्र सन्देशं प्रसार्य राधाष्टम्याः शुभकामनाः प्रदत्ताः। तेन उक्तं यत् पवित्रराधाष्टम्याः अवसरे सर्वेभ्यः हार्दिकाः शुभेच्छाः अभिनन्दनं च। मातुः राधाराण्याः कृपया सर्वेषां जीवनं सुखसमृद्धिभ्यां परिपूर्णं भवतु।

उपमुख्यमन्त्रिणी प्रभातीपरिडा राधाष्टम्याः अवसरे प्रदेशवासिभ्यः हार्दिकशुभकामनाः प्रदाय तेषां सुखशान्तिसमृद्धीनां कामनां कृतवती।

उपमुख्यमन्त्री कनकवर्धनसिंहदेवः स्वसन्देशे उक्तवान् यत् पवित्रराधाष्टम्याः अवसरे समस्तेभ्यः ओडिशावासिभ्यः तस्य पक्षतः हार्दिकाः शुभकामनाः मङ्गलकामनाश्च।

स्वास्थ्यमन्त्री डॉ. मुकेशमहालिङ्गः अपि राधाष्टम्याः अवसरे प्रदेशवासिभ्यः हार्दिकमभिनन्दनं शुभकामनाश्च प्रदत्तवान्।

केन्द्रीयमन्त्री जुएलओरामः राधाष्टमीं प्रेमभक्त्योः अधिष्ठात्रीं वृषभानुनन्दिनीं श्रीराधाराणीं प्रति पवित्रावतरणदिवसरूपेण उल्लिख्य देशवासिभ्यः शुभकामनाः प्रदत्तवान्। तेन प्रार्थितं यत् श्रीराधाराण्याः कृपया सर्वेषां जीवने प्रेम भक्तिः सुखं शान्तिश्च निवसन्तु।

---------------

Hindusthan Samachar / Dheeraj Maithani