Enter your Email Address to subscribe to our newsletters

७४०० तः अधिकाः मेधाविनः विद्यार्थिनः लाभान्विताः भविष्यन्ति
भोपालस्य शासकीयसुभाषश्रेष्ठविद्यालये भविष्यति राज्यस्तरीयः कार्यक्रमः
भोपालम्, १९ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे प्रदेशस्य मेधाविभ्यः विद्यार्थिभ्यः महत्त्वपूर्णं सौगातं प्रदास्यति। शासकीयेषु उच्चतरमाध्यमिकविद्यालयेषु द्वादशकक्षायां उत्कृष्टं प्रदर्शनं कृतवद्भ्यः विद्यार्थिभ्यः अद्य ई स्कूटीनां वितरणं करिष्यति। एताः स्कूट्यः ‘मुख्यमन्त्री स्कूटीयोजनायाः’ अन्तर्गतं प्रदास्यन्ते। अनेन विद्यार्थिनां उच्चशिक्षाप्राप्तेः मार्गः सुकरः भविष्यति। तथैव महाविद्यालयं प्रति गमनागमनयोः अपि सुविधा भविष्यति।
जनसम्पर्काधिकारी सुनीलवर्मा अवदत् यत् राज्यस्तरीयः स्कूटीवितरणकार्यक्रमः शासकीयसुभाषश्रेष्ठउच्चतरमाध्यमिकविद्यालये, शिवाजीनगर, भोपाल इत्यत्र प्रातः नववादनात् प्रारप्स्यते। प्रदेशसर्वकारेण सञ्चाल्यमानस्य मुख्यमन्त्री स्कूटीयोजनायाः उद्देश्यं विद्यालयीयविद्यार्थिनः शैक्षणिकोपलब्धीनां प्राप्तये प्रोत्साहितुं वर्तते। योजनायाः लाभं प्राप्तुं विद्यार्थिना द्वादशकक्षायां प्रथमप्रयासे एव ७० प्रतिशताङ्कैः उत्तीर्णतां प्राप्य विद्यालये प्रथमस्थानं प्राप्तव्यम् अस्ति।
प्रदेशसर्वकारेण अस्याः योजनायाः लाभः विद्यालयशिक्षाविभागस्य जनजातीयकार्यविभागस्य च शासकीयेषु उच्चतरमाध्यमिकविद्यालयेषु नियमितविद्यार्थिरूपेण अध्ययनं कुर्वद्भ्यः विद्यार्थिभ्यः प्रदीयते। योजनायां सर्वेषां संकायानां विद्यार्थिनः समाविष्टाः सन्ति। मोटरयुक्तस्कूट्यै अधिकतमं ९० सहस्ररूप्यकाणि तथा ई स्कूट्यै अधिकतमं १.२० लक्षरूप्यकाणि धनराशिः प्रदीयते।
अद्यावधि प्रदेशस्य २३,००० तः अधिकाः पात्रविद्यार्थिनः लाभान्विताः
सः अवदत् यत् प्रदेशसर्वकारेण योजनायाः अन्तर्गतं शिक्षणसत्रस्य २०२५ २६ कृते प्रदेशस्य ७४०० तः अधिकेभ्यः पात्रविद्यार्थिभ्यः ई स्कूटीनां वितरणं करिष्यते। उल्लेखनीयं यत् मेधाविविद्यार्थिनां प्रोत्साहनाय प्रदेशसर्वकारेण सञ्चाल्यमानया अनया योजनया अद्यावधि प्रदेशस्य २३,००० तः अधिकाः पात्रविद्यार्थिनः लाभान्विताः सन्ति। योजनायाः सञ्चालनाय अद्यावधि प्रायः २४६ कोटिरूप्यकाणि व्ययितानि सन्ति।
मुख्यमन्त्री स्कूटीयोजना मेधाविविद्यार्थिनां परिश्रमं उपलब्धिं च प्रोत्साहयन्ती तेषां अग्रिमाध्ययनाय सुविधाप्रदाने प्रदेशसर्वकारस्य महत्त्वपूर्णा पहलः अस्ति। शासकीयविद्यालयेषु अध्ययनं कुर्वतां विद्यार्थिनां उत्कृष्टप्रदर्शनाय प्रोत्साहनेन शिक्षां प्रति तेषाम् उत्साहः वर्धते तथा उच्चशिक्षायां तेषां सहभागितायाः सुदृढीकरणेऽपि सहायता भवति।
Hindusthan Samachar / Dheeraj Maithani