अपशिष्टसामग्रीनिस्तारणे पूर्वरेल्वे देशस्य शीर्षस्थक्षेत्रेषु सम्मिलिता, पञ्चसु मासेषु २५१.९२ कोटिरूप्यकाणाम् अर्जनम्
कोलकाता, 19 सितंबरमासः (हि.स.)। पूर्वरेल्वे कबाड़सामग्रीनिस्तारणस्य क्षेत्रे उल्लेखनीयप्रदर्शनं कुर्वन् देशस्य त्रिषु शीर्षस्थेषु क्षेत्रीयरेल्वेषु स्वस्थानं निर्मितवान्। वित्तीयवर्षस्य २०२६ २७ तमस्य प्रथमेषु पञ्चसु मासेषु कबाड़सामग्रीविक्रयेन पूर्
रेलवे ट्रैक


कोलकाता, 19 सितंबरमासः (हि.स.)। पूर्वरेल्वे कबाड़सामग्रीनिस्तारणस्य क्षेत्रे उल्लेखनीयप्रदर्शनं कुर्वन् देशस्य त्रिषु शीर्षस्थेषु क्षेत्रीयरेल्वेषु स्वस्थानं निर्मितवान्। वित्तीयवर्षस्य २०२६ २७ तमस्य प्रथमेषु पञ्चसु मासेषु कबाड़सामग्रीविक्रयेन पूर्वरेल्वे २५१.९२ कोटिरूप्यकाणां राजस्वम् अर्जितवती। अधिकारिणां मते अनुपयोगिनां पुरातनसामग्रीणां नियमितरूपेण पहिचानं, सततनिरीक्षणं तथा पारदर्शकनिस्तारणप्रक्रिया च अस्याः सफलतायाः प्रमुखकारणानि अभवन्।

शनिवासरे प्रकाशिते निवेदने रेल्वे उक्तवती यत् एषा उपलब्धिः पूर्वरेल्वेः ‘शून्यकबाड़सन्तुलनमभियानस्य’ भागः अस्ति। अस्य अभियानस्य उद्देश्यं कार्यशालासु, आगारेषु, शेड् परिसरेषु, यार्ड् स्थलेषु तथा अन्येषु रेल्वेपरिसरेषु स्थितानाम् अप्रचलितानाम् अनुपयोगिनां च वस्तूनां व्यवस्थितरूपेण निस्तारणम् अस्ति।

२०२६ तमस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं निर्धारितस्य २०७.१७ कोटिरूप्यकाणां आनुपातिकस्य लक्ष्यस्य स्थाने पूर्वरेल्वे २५१.९२ कोटिरूप्यकाणि प्राप्तवती, यत् निर्धारितलक्ष्याद् २१ प्रतिशताधिकम् अस्ति। एतदतिरिक्तं चालूवित्तीयवर्षस्य ५६५ कोटिरूप्यकाणां समग्रवार्षिकलक्ष्यस्य प्रायः ४५ प्रतिशतं भागं प्रथमेष्वेव पञ्चसु मासेषु प्राप्तवती। गतवर्षस्य समानावधौ एषा राशि १९३ कोटिरूप्यकाणि आसीत्। तस्य तुलनया अस्मिन् वर्षे ३०.५ प्रतिशतस्य वृद्धिः अभिलिखिता।

अस्य राजस्वसङ्ग्रहस्य सर्वाधिकं योगदानम् अप्रचलितानां अभियान्त्रिकीसम्बद्धानां मार्गसामग्रीणां च विक्रयात् प्राप्तम्। पूर्वरेल्वे प्रायः ११,५०० मेट्रिक् टनपरिमितानां पुरातनरेलमार्गपटरिकाणां निस्तारणं कृत्वा २८.५६ कोटिरूप्यकाणि प्राप्तवती। तदतिरिक्तं प्रायः २९,०५५ मेट्रिक् टनपरिमितात् विविधलौहकबाड़ात् १००.६३ कोटिरूप्यकाणि तथा अलौहकबाड़ात् ५३.६५ कोटिरूप्यकाणां राजस्वं प्राप्तम्।

एतदतिरिक्तम् अनुपयोगिनः घोषितानां रेलयानसामग्रीणां नीलाम्याः माध्यमेनापि पर्याप्तम् आयम् अभवत्। प्रथमेषु पञ्चसु मासेषु १७५ अनुपयोगिनां यात्रिकयानानां निस्तारणेन ३१.८७ कोटिरूप्यकाणि तथा ३१० मालवाहकयानपेटिकानां नीलाम्या ११.८२ कोटिरूप्यकाणि प्राप्तानि।

पूर्वरेल्वेः प्रमुखमुख्यसामग्रीप्रबन्धकः सन्दीपशुक्लः अवदत् यत् एषा उपलब्धिः समन्वितप्रयत्नानां, कबाड़सामग्रीणां समये एव पहिचानस्य तथा विद्युतीयनीलामीप्रणाल्या पारदर्शकनिस्तारणस्य च परिणामः अस्ति। इदं अभियानं पूर्वरेल्वेः हावड़ा, सियालदह, आसनसोल तथा मालदा इति चतसृषु मण्डलेषु, जमालपुर, लिलुआ, हालिशहर तथा काञ्चड़ापाड़ा इत्यत्र स्थितासु प्रमुखासु कार्यशालासु सामग्रीभण्डारेषु च व्यापकस्तरेण प्रचलितम् अस्ति।

पूर्वरेल्वेः मुख्यजनसम्पर्काधिकारी शिबराममाञ्झी अवदत् यत् कबाड़निस्तारणाभियानेन न केवलं रेल्वेः अप्रयातराजस्वस्य प्राप्तिः भवति, अपितु मूल्यवान् रेलभूमेः भण्डारणस्थलानां च रिक्तीकरणमपि भवति। अनेन कार्यस्थलस्य सुरक्षायां स्वच्छतायां च सुधारः भवति तथा धातूनां पुनर्चक्रणमपि प्रोत्साह्यते। सः अवदत् यत् पूर्वरेल्वे ‘शून्यकबाड़सन्तुलनम्’ इति लक्ष्यं पूर्णतया प्राप्तुं इदम् अभियानम् अग्रेऽपि समानवेगेन निरन्तरं चालयिष्यति।

----------

Hindusthan Samachar / अंशु गुप्ता