वाराणसी – नमामि गङ्गे, नगरनिगमेन स्वयंसेवकैश्च प्रमुखेषु घाटेषु विशेषस्वच्छताभियानम् सञ्चालितम्
वाराणसी, 19 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे गङ्गायाः जलस्तरस्य न्यूनीभूते सति नमामि गङ्गे, नगरनिगमस्य स्थानीयस्वयंसेवकानां च सहयोगेन शनिवासरे अस्सीघाटः दशाश्वमेधघाटः इत्यादिषु प्रमुखेषु घाटेषु विशेषस्वच्छताभियानं सञ्चालितम्। स्वयं
गंगा घाट पर फैली मिट्टी


वाराणसी, 19 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे गङ्गायाः जलस्तरस्य न्यूनीभूते सति नमामि गङ्गे, नगरनिगमस्य स्थानीयस्वयंसेवकानां च सहयोगेन शनिवासरे अस्सीघाटः दशाश्वमेधघाटः इत्यादिषु प्रमुखेषु घाटेषु विशेषस्वच्छताभियानं सञ्चालितम्।

स्वयंसेवकः अमितः अवदत् यत् गङ्गायाः घाटसोपानेषु प्रचुरमात्रायां पङ्कः, जलकुम्भी, प्लास्टिकपात्राणि, पॉलिथीनसामग्री पूजासामग्री च सञ्चिता अस्ति। तेन श्रद्धालूनां विदेशीयपर्यटकानां च आवागमने असुविधा भवति। एतद् दृष्ट्वा वयं विशेषस्वच्छताभियानं प्रारब्धवन्तः।

स्वच्छताभियानस्य समये नगरनिगमस्य वाहनानां नौकानां च साहाय्येन प्रचुरमात्रायां सङ्गृहीतं कचरा: बहिः निष्कास्य निस्तारणकेन्द्रं प्रेष्यते।

अभियानस्य समये नमामि गङ्गे इत्यस्य पदाधिकारिभिः घाटेषु उपस्थितानां नागरिकानां विक्रेतॄणां च स्वच्छतायाः विषये जागरूकता सम्पादिता। ते स्थानीयजनान् विक्रेतॄंश्च सन्देशं दत्तवन्तः यत् मोक्षदायिनीं गङ्गां प्रदूषणमुक्तां स्थापयितुं सर्वेषां नैतिकं कर्तव्यम् अस्ति।

नगरनिगमस्य पक्षतः आगामीन् उत्सवान् दृष्ट्वा सर्वान् अर्धचन्द्राकारघाटान् स्वच्छान् सुगमान् च कर्तुं स्वच्छताभियानम् अग्रेऽपि नियमितरूपेण प्रचलिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani