उत्तरप्रदेशस्य सांस्कृतिकवैविध्यं २५तः २९ सेप्टेम्बरपर्यन्तं प्रदर्शयिष्यते
नोएडा, १९ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य औद्योगिकं, व्यापारिकं सांस्कृतिकं च परिचयं वैश्विकमञ्चे प्रस्तोतुम् आयोजिते उत्तरप्रदेश-अन्ता-राष्ट्रियव्यापारप्रदर्शने २५तः २९ सेप्टेम्बरपर्यन्तं विविधाः सांस्कृतिकाः कार्यक्रमाः आयोजयिष्यन्ते। प्रद
यूपी इंटरनेशनल ट्रेड शो


नोएडा, १९ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य औद्योगिकं, व्यापारिकं सांस्कृतिकं च परिचयं वैश्विकमञ्चे प्रस्तोतुम् आयोजिते उत्तरप्रदेश-अन्ता-राष्ट्रियव्यापारप्रदर्शने २५तः २९ सेप्टेम्बरपर्यन्तं विविधाः सांस्कृतिकाः कार्यक्रमाः आयोजयिष्यन्ते। प्रदेश-सर्वकारस्य प्रयत्नैः आयोजिते अस्मिन् व्यापारप्रदर्शने देश-विदेशेभ्यः आगच्छद्भ्यः उद्यमिभ्यः, निवेशकेभ्यः आगन्तुकेभ्यश्च उत्तरप्रदेशस्य समृद्ध-लोककलायाः, शास्त्रीयसङ्गीतस्य, नृत्यस्य सांस्कृतिकपरम्पराणां च परिचयं प्राप्तुम् अवसरः प्राप्स्यते।

उत्तरप्रदेशस्य सूचनाविभागस्य अनुसारं सांस्कृतिककार्यक्रमाणां शुभारम्भः २५ सेप्टेम्बरदिनाङ्के शङ्खवादनेन वैदिक-मङ्गलाचरणेन च भविष्यति। वाराणस्याः विशालकुमारस्य प्रस्तुत्या कार्यक्रमस्य शुभारम्भः भविष्यति। ततः नोएडानगरस्य पण्डितचेतनजोशी वाद्य-सङ्गीतं प्रस्तोष्यति। लखनऊनगरस्य अलोक-निशाश्रीवास्तवः कथकनृत्यं, प्रयागराजस्य पूर्णिमाढेढिया लोकनृत्यं तथा वृन्दावनस्य आरतीखेतपालः भजन-प्रस्तुतिं करिष्यति।

२६ सेप्टेम्बरमासे पखावजवाद्य-युगलवादनम्, भोजपुरीलोकगायनं कथकनृत्यं च, मथुरायाः लोकनृत्यं तथा तारकारात्रिः प्रमुखाकर्षणानि भविष्यन्ति। पखावज-वाद्ययुगलवादने दिल्लीस्थौ पण्डित-रविशङ्कर-उपाध्यायः पण्डित-ऋषिशङ्कर-उपाध्यायश्च प्रस्तुतिं करिष्यतः। भोजपुरीलोकगायने मिर्जा-पुरस्य कुसुमपाण्डेया जौनपुरस्य अवनीशतिवारी च प्रस्तुतिं करिष्यतः। नोएडानगरस्य मर्यादाकुलश्रेष्ठा कत्थकनृत्यं प्रस्तुतयिष्यति, मथुरायाः सीमामावलः लोकनृत्यं तथा सुल्तानपुरस्य निष्ठाशर्मा तारकारात्रौ प्रस्तुतिं करिष्यति।

२७ सेप्टेम्बरमासे सैक्सोफोनवाद्यसङ्गीतं भजनलोकगायनं च, झाँसीनगरस्य राईलोकनृत्यं, भरतनाट्यम् तथा तारकारात्रेः आयोजनं भविष्यति। २८ सेप्टेम्बरदिनाङ्के लखनऊनगरस्य भातखण्डेसंस्कृतिविश्वविद्यालयस्य ताल-वाद्यसमूहः कार्यक्रमस्य प्रमुखाकर्षणं भविष्यति। तदतिरिक्तं महोबानगरस्य जितेन्द्रचौरसिया आल्हागायनं प्रस्तोष्यति। कत्थकनृत्यं, पीलीभीतस्य थारूजन-जातीयनृत्यं तथा सुल्तानपुरस्य रूपालीजोग्गू इत्यस्याः सूफीसङ्गीतरात्रिः अपि आयोजिता भविष्यति।

२९ सेप्टेम्बरमासे सांस्कृतिककार्यक्रमाणां समापनं वाराणस्याः पद्मश्रीपण्डित-शिवनाथमिश्रस्य सितारवादनेन भविष्यति। ततः लखनऊनगरस्य कमालखानः गजल-गायनं, गाजियाबादनगरस्य मितालीसैनी कत्थकनृत्यं तथा ‘कत्थक ऑफ इण्डिया-यूपी’ इत्यस्याः नृत्य-नियोजितप्रस्तुतिं करिष्यति। कार्यक्रमस्य अन्ते तारकारात्रेः आयोजनं भविष्यति।

व्यापारप्रदर्शने प्रदेशस्य विभिन्नानाम् अञ्चलानां लोककलानां शास्त्रीय-परम्पराणां च कृते मञ्चस्य प्राप्त्या उत्तरप्रदेशस्य सांस्कृतिकवैविध्यं व्यापक-स्तरे प्रस्तुतं भविष्यति। काशी, मथुरा, वृन्दावन, बुन्देलखण्ड, अवध, पूर्वाञ्चल तथा तराईक्षेत्रस्य कलाकाराः स्वकीयाभिः प्रस्तुतिभिः प्रदेशस्य बहुरङ्गीं सांस्कृतिक-परम्परां देश-विदेशेभ्यः आगतेभ्यः आगन्तुकेभ्यः परिचाययिष्यन्ति।

औद्योगिकव्यापारिकगतिविधिभिः सह सांस्कृतिककार्यक्रमाः उत्तरप्रदेश-अन्ता-राष्ट्रियव्यापारप्रदर्शनं कला-संस्कृत्योः उद्यमितायाश्च सङ्गमरूपेण प्रस्तोष्यन्ति। विभिन्नकलाविधीनां कलाकारानां प्रस्तुतयः व्यापारप्रदर्शने आगच्छतां निवेशकानाम्, उद्यमिनाम् दर्शकाणां च कृते उत्तरप्रदेशस्य सांस्कृतिकपरिचयं प्रकाशयितुं माध्यमं भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan