Enter your Email Address to subscribe to our newsletters

लखनऊ, 19 सितंबरमासः (हि.स.)। केन्द्रीयवनपर्यावरणजलवायुपरिवर्तनराज्यमन्त्री कीर्तिवर्धनसिंहः शनिवासरे लखनऊनगरे स्थितस्य कॉल्विनतालुकेदार्समहाविद्यालयस्य निरीक्षणं कृतवान्। निरीक्षणस्य समये मन्त्री महाविद्यालयस्य प्राङ्गणे क्रीडद्भिः बालकैः सह संवादं कृतवान्।
केन्द्रीय राज्यमन्त्री कीर्तिवर्धनसिंहेन बालकैः सह कृतस्य संवादस्य चलच्चित्रं स्वकीयसामाजिकमाध्यमस्य ‘एक्स’ इति खातेन प्रकाशितम्। स्वकीयायां सूचनायां सः लिखितवान् यत् बालकानां ऊर्जा, तेषाम् उत्सुकता, भविष्यं प्रति तेषां स्वप्नानि च दृष्ट्वा मनः प्रसन्नतया परिपूर्णम् अभवत्। देशस्य भविष्यं एतेषामेव बालकानां सुदृढेषु स्कन्धेषु आधारितम् अस्ति। एतेभ्यः सर्वेभ्यः बालकेभ्यः उज्ज्वलभविष्यस्य सफलतायाश्च बह्व्यः शुभकामनाः।
-------------
Hindusthan Samachar / Dheeraj Maithani