यूपीएल २०२६ उद्घाटनसमारोहे उत्तराखण्डस्य संस्कृतेः वर्णवैभवं दृश्यते, वाणी कपूरः मुख्याकर्षणम्
देहरादूनम्, १९ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्ड-प्रीमियर-लीग इत्यस्य तृतीय-सत्रस्य भव्यस्य उद्घाटनसमारोहस्य सज्जता पूर्णा अभवत्। २१ सेप्टेम्बरमासे देहरादूनस्य राजीवगान्धी-अन्ताराष्ट्रिय-क्रिकेट-क्रीडाङ्गणे आयोजिते उद्घाटन-समारोहे चलचित्राभिनेत्री
वाणी कपूर


देहरादूनम्, १९ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्ड-प्रीमियर-लीग इत्यस्य तृतीय-सत्रस्य भव्यस्य उद्घाटनसमारोहस्य सज्जता पूर्णा अभवत्। २१ सेप्टेम्बरमासे देहरादूनस्य राजीवगान्धी-अन्ताराष्ट्रिय-क्रिकेट-क्रीडाङ्गणे आयोजिते उद्घाटन-समारोहे चलचित्राभिनेत्री वाणी कपूरः मुख्याकर्षणं भविष्यति। तया सह उत्तराखण्डस्य समृद्धस्य सांस्कृतिकस्य सङ्गीतमयस्य च धरोहरस्य दृश्यमपि मञ्चे द्रष्टुं लप्स्यते।

अस्मिन् रङ्गारङ्गे कार्यक्रमे राज्यस्य विभिन्नक्षेत्रेभ्यः—गढवालात्, कुमाऊँतः, जौनसारतः च—प्रसिद्धाः लोकगायकाः स्वप्रस्तुतिं दास्यन्ति। गढवालतः करिश्मा-शाहः तथा रुहानभारद्वाजः, कुमाऊँतः इन्दर-आर्यः, जौनपुरतः मञ्जुनौटियालः तथा जौनसारतः अज्जूतोमरः अजयचौहानः च एकस्मिन् मञ्चे समागत्य स्थानीयलोकसङ्गीतस्य माधुर्यं प्रसारयिष्यन्ति।

सर्वप्रथमं महिलावर्गस्य द्वे स्पर्धे २१ सेप्टेम्बरमासे भविष्यतः। प्रातः ११ वादने पिथौरागढ-हरिकेन्स-दलं देहरादून-वॉरियर्स-दलेन सह स्पर्धिष्यते। ततः अपराह्णे ३ वादने बागेश्वर-एरियल-दलं मसूरी-क्वीन्स-दलेन सह सम्मुखी-भविष्यति। अनयोः द्वयोः स्पर्धयोः समाप्तेः अनन्तरं सायंकाले उद्घाटनसमारोहः आयोजयिष्यते।

उद्घाटनसमारोहोः पूर्वं क्रिकेट-एसोसिएशन-ऑफ-उत्तराखण्डस्य सचिवा किरणवर्मा एका निवेदने उक्तवती यत् उद्घाटनसमारोहः उत्तराखण्ड-प्रीमियर-लीग इत्यस्य अन्यस्य रोमाञ्चकस्य सत्रस्य प्रारम्भस्य प्रतीकः अस्ति। सा उक्तवती— “एकस्मिन् मञ्चे क्रिकेट-क्रीडां तथा उत्तराखण्डस्य समृद्धां सांस्कृतिक-प्रतिभां च एकत्र आनयित्वा वयं अत्यन्तं प्रसन्नाः स्मः।”

भारतीयक्रिकेटनियन्त्रणमण्डलस्य पूर्वोपाध्यक्षः तथा सीएयू-सङ्घस्य पूर्वसचिवः महीमवर्मा उक्तवान् यत् उद्घाटनसमारोहः क्रिकेट-क्रीडायाः उत्तराखण्डस्य च जीवन्तं सांस्कृतिक-परिचयं द्वयोरपि उत्सवस्य रूपेण आयोजयितुं अद्भुतः अवसरः अस्ति। वर्षेभ्यः यूपीएल-क्रीडायाः माध्यमेन क्रीडकाणां स्वप्रतिभाप्रदर्शनाय उत्तमः मञ्चः प्रदत्तः अस्ति तथा एतत् सत्रम् अपि एकं रोमाञ्चकम् अध्यायं सिद्धं भविष्यति।यूपीएल्-क्रीडायाः अध्यक्षः सुनीलजोशी उक्तवान् यत् उत्तराखण्ड-प्रीमियर-लीग इत्यस्य एतत् तृतीयं सत्रं लीग-क्रीडायै उत्तराखण्डस्य क्रिकेट-क्रीडायै च महत्त्वपूर्णं सोपानम् अस्ति। विभिन्नायुवर्गेभ्यः पृष्ठभूमिभ्यश्च क्रीडकाणाम् एकत्र समागमेन एषा क्रीडास्पर्धा स्थापितेभ्यः उदयमानेभ्यश्च क्रिकेट-क्रीडकेभ्यः गुणवत्तापूर्णे विंशति-प्रहारात्मक-क्रीडा-प्रारूपे प्रतिस्पर्धितुं अवसरं प्रददाति।

महिलावर्गस्य समापनं २४ सेप्टेम्बरमासे अन्तिमस्पर्धया भविष्यति। पुरुषवर्गस्य प्रारम्भः तु २२ सेप्टेम्बरमासे सायं ७:३० वादने हरिद्वार-एल्मास-दलस्य नैनीताल-टाइगर्स-दलेन सह स्पर्धया भविष्यति। पुरुषवर्गस्य निष्कासनस्पर्धा ३० सेप्टेम्बरमासे तथा अन्तिमस्पर्धा १ अक्तूबरमासे खेलिष्यते।

Hindusthan Samachar / Divya Ranjan