आईआईटी रुड़कीनगर इत्यस्य दीक्षान्तसमारोहे डोभालेन तकनीकीदक्षतायाः राष्ट्रनिर्माणेन सह संयोजनस्य आह्वानं कृतम्
राष्ट्रं प्रथमं मन्यमानाः जीवनस्य पथि अग्रे गच्छन्तु - डोभालः रुड़की, १९ सितम्बरमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य रुड़की इत्यस्य द्विदिवसीयस्य वार्षिकदीक्षान्तसमारोहस्य २०२६ इत्यस्य शुभारम्भः शनिवासरे अभवत्। समारोहस्य प्रथमदिने मुख्यातिथि
दीक्षांत में मौजूद छात्र


संबोधित करते अजीत डोभाल


उपाधि प्रदान करते अजीत डोभाल व अन्य


राष्ट्रं प्रथमं मन्यमानाः जीवनस्य पथि अग्रे गच्छन्तु - डोभालः

रुड़की, १९ सितम्बरमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य रुड़की इत्यस्य द्विदिवसीयस्य वार्षिकदीक्षान्तसमारोहस्य २०२६ इत्यस्य शुभारम्भः शनिवासरे अभवत्। समारोहस्य प्रथमदिने मुख्यातिथिरूपेण राष्ट्रियसुरक्षासलाहकारः अजीतकुमारडोभालः विद्यार्थिभ्यः स्वकीयां प्रौद्योगिकीदक्षतां देशस्य विकासाय, राष्ट्रियसुरक्षायै सामाजिककल्याणाय च प्रयोक्तुम् आह्वानं कृतवान्। संस्थानस्य अनुसारम् अस्मिन् वर्षे कुलं २७०१ विद्यार्थिभ्यः उपाधयः प्रदीयन्ते।

मुख्यातिथिरूपेण विद्यार्थिनः सम्बोधयन् राष्ट्रियसुरक्षासलाहकारः अजीतकुमारडोभालः भारतीयप्रौद्योगिकीसंस्थानस्य रुड़की इत्यस्य गौरवशालिनः इतिहासस्य वैश्विकयोगदानस्य च प्रशंसां कृतवान्। सः अवदत् यत् भारतीयप्रौद्योगिकीसंस्थानस्य रुड़की इत्यस्य स्नातकाः न केवलं भारतदेशे, अपितु वैश्विकपटलमपि स्वकीयाभिः उत्कृष्टक्षमताभिः सेवाभिश्च विशिष्टतां स्थापितवन्तः। सः अवदत् यत् अस्य संस्थानस्य पूर्वछात्रैः वैश्विकस्तरे देशस्य नाम उज्ज्वलीकृतम् अस्ति। अद्यापि भारतीयप्रौद्योगिकीसंस्थानस्य रुड़की इत्यस्य प्रतिष्ठा सम्पूर्णे विश्वे स्थापिताऽस्ति।

डोभालः स्नातकत्वं प्राप्तुम् उद्यतान् युवानः आहूतवान् यत् ते स्वकीयां प्रौद्योगिकीदक्षतां केवलं वैयक्तिकव्यावसायिकजीवनपर्यन्तं सीमितां न कुर्युः, अपितु देशस्य विकासे, राष्ट्रियसुरक्षायां सामाजिककल्याणे च तस्याः उपयोगं कुर्वन्तु। सः विद्यार्थिभ्यः राष्ट्रं प्रथमं मन्यमानया भावनया अग्रे गन्तुं प्रेरणां दत्तवान्।

समारोहे सेनायाः उपसेनाप्रमुखः जनरल् एन.एस. राजा सुब्रमणिः अपि विद्यार्थिनः सम्बोधितवान्। सः राष्ट्रनिर्माणे विद्यार्थिनां भूमिकां प्रकाशयन् भविष्यस्य आव्हानानां सम्मुखीकरणाय तेभ्यः शुभकामनाः प्रदत्तवान्।

भारतीयप्रौद्योगिकीसंस्थानस्य रुड़की इत्यस्य निदेशकः प्रो. के.के. पन्तः संस्थानस्य साम्प्रतिकानां उपलब्धीनां, अनुसन्धानकार्याणां अन्तर्राष्ट्रीयसहयोगस्य च विवरणं प्रस्तुतवान्। सः अवदत् यत् संस्थानं निरन्तरं नवाचारस्य अनुसन्धानस्य च क्षेत्रे नूतनानि कीर्तिमानानि स्थापयति। सः उपाधिप्राप्तेभ्यः सर्वेभ्यः २७०१ विद्यार्थिभ्यः उज्ज्वलभविष्यस्य शुभकामनाः प्रदत्तवान्।

समारोहस्य प्रथमदिने स्नातकपाठ्यक्रमेषु अध्ययनरतविद्यार्थिभ्यः उपाधयः प्रदत्ताः। उपाधिप्राप्तिमात्रेण विद्यार्थिनां मुखेषु प्रसन्नता प्रकटिता। द्विदिवसीयस्य समारोहस्य द्वितीयदिने स्नातकोत्तरविद्यार्थिभ्यः पीएचडीशोधार्थिभ्यश्च उपाधयः प्रदास्यन्ते। तस्मिन् कार्यक्रमे हीरो मोटोकॉर्प इत्यस्य मुख्यकार्यपालकाधिकारी हर्षवर्धनचितले मुख्यातिथिः भविष्यति।

अस्मिन् अवसरे मन्त्रिमण्डलस्य सदस्यः प्रदीपबत्रा, संयुक्तमजिस्ट्रेट् दीपकरामचन्द्रशेट्, भारतीयप्रौद्योगिकीसंस्थानस्य प्रशासनिकाधिकारीगणः, प्राध्यापकाः, विद्यार्थिनः, अभिभावकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani