Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 19 सितम्बरमासः (हि.स.)। माटीगाड़ा-नक्सलबाड़ी-विधानसभाक्षेत्रस्य माटीगाड़ा-खण्डे स्थिते एकस्मिन् निज-विश्रामालये शनिवासरे रोजगारमेलायाः आयोजनं कृतम्। कार्यक्रमे केन्द्रीय-खाद्य-प्रसंस्करण-उद्योगमन्त्री चिराग-पासवानः बंगालस्य, बिहारस्य, असमस्य तथा उत्तरप्रदेशस्य च कुलम् ८५ चयनित-अभ्यर्थिभ्यः नियुक्ति-प्रमाणपत्राणि प्रदत्तवान्।
अस्मिन् अवसरे चिराग-पासवानः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदी देशस्य युवभ्यः रोजगारस्य अवसरान् उपलब्धान् कर्तुं यः संकल्पः कृतवान् अस्ति, रोजगारमेला तस्यामेव दिशि एका महत्त्वपूर्णः उपक्रमः अस्ति। सः उक्तवान् यत् अनेन माध्यमेन युवान् रोजगारेण सह संयोजयितुं तथा तान् ‘विकसित-भारतस्य’ निर्माणे सहभागिनः कर्तुं प्रयासः क्रियते। नवनियुक्तान् युवान् सम्बोधयन् केन्द्रीयमन्त्री उक्तवान् यत् सरकारी-नियुक्तिः केवलं तेषां व्यक्तिगतजीवने परिवर्तनस्य माध्यमं नास्ति, अपितु देशस्य विकासेऽपि तेषां महत्त्वपूर्णा भूमिका भविष्यति। सः युवभ्यः पूर्णया उत्तरदायित्वभावनया समर्पणेन च स्वकर्तव्यनिर्वहणस्य आह्वानं कृतवान्।
पत्रकारैः सह वार्तालापे नन्दीग्राम-उपनिर्वाचने कांग्रेस-अभ्यर्थिनः ग्रहणसम्बद्धे प्रश्ने चिराग-पासवानः उक्तवान् यत् ग्रहणं वैधानिक-प्रक्रियायाः एकः भागः अस्ति। सः उक्तवान् यत् यदि कश्चित् व्यक्तिः निर्दोषः अस्ति तर्हि तेन भयभीतेन भवितुम् आवश्यकता नास्ति। रोजगारमेलायाः माध्यमेन यत्र चतुर्णां राज्यानां ८५ युवभ्यः नियुक्ति-प्रमाणपत्राणि प्रदत्तानि, तत्रैव कार्यक्रमस्य मञ्चात् युवभ्यः देशस्य विकासेन तथा ‘विकसित-भारतस्य’ लक्ष्येन सह सम्बद्धुं सन्देशोऽपि प्रदत्तः।-------------
Hindusthan Samachar / अंशु गुप्ता