फकीराग्रामे अद्य आचर्यते ‘जुबीनदिवसः’
कोकराझारः (असमः), 19 सितम्बरमासः (हि.स.)। फकीराग्रामस्वर्णशाखासाहित्यसभायाः फकीराग्रामकलासंस्कृतिविकासमञ्चस्य च संयुक्ततत्त्वावधानेन अद्य ‘जुबीनदिवसः’ आचर्यते। असमीयसङ्गीतस्य सांस्कृतिकक्षेत्रस्य च लोकप्रियकलाकारस्य जुबीनगर्गस्य कलासाधनां, सृजनात
फकीराग्राम में आज मनाया जाएगा ‘जुबिन दिवस’


कोकराझारः (असमः), 19 सितम्बरमासः (हि.स.)।

फकीराग्रामस्वर्णशाखासाहित्यसभायाः फकीराग्रामकलासंस्कृतिविकासमञ्चस्य च संयुक्ततत्त्वावधानेन अद्य ‘जुबीनदिवसः’ आचर्यते। असमीयसङ्गीतस्य सांस्कृतिकक्षेत्रस्य च लोकप्रियकलाकारस्य जुबीनगर्गस्य कलासाधनां, सृजनात्मकतां तथा असमीयसमाजस्य संस्कृतेश्च प्रति तस्य योगदानं स्मर्तुं कार्यक्रमस्य आयोजनं क्रियते।

आयोजकानाम् अनुसारम् अद्य सायं पञ्चवादनात् फकीराग्रामस्य शहीदवेदीपरिसरे ‘जुबीनदिवस’ कार्यक्रमः आयोजितः भविष्यति। कार्यक्रमस्य समये जुबीनगर्गस्य सङ्गीतसांस्कृतिकयोगदानं केन्द्रे निधाय विविधाः कार्यक्रमाः प्रस्तुताः भविष्यन्ति। तथैव तस्य रचनानां माध्यमेन नवपीढ्यां असमीयभाषायाः, सङ्गीतस्य संस्कृतेश्च प्रति रुचिं सम्बद्धतां च वर्धयितुम् अपि विशेषः प्रयासः क्रियते।

जुबीनगर्गेण असमीयसङ्गीतं देशस्य विदेशस्य च विभिन्नेषु मञ्चेषु प्रापयितुं महत्त्वपूर्णा भूमिका निर्व्यूढा। तस्य गीतैः, सङ्गीतेन सृजनात्मककार्यैश्च असमस्य युवापीढ्यां विशेषः प्रभावः स्थापितः तथा असमीयसङ्गीतस्य व्यापकपरिचये अपि तस्य महत्त्वपूर्णं योगदानम् अस्ति। एतमेव उद्देश्यम् अधिगम्य आयोजितस्य ‘जुबीनदिवसस्य’ माध्यमेन तस्य सांस्कृतिकयोगदानस्य स्मरणं कुर्वता तस्य रचनाभिः नवपीढीं संयोजयितुं प्रयासः क्रियते।

आयोजकसमित्या कार्यक्रमे स्थानीयकलाकाराः, साहित्यसंस्कृत्योः सम्बद्धाः जनाः तथा सङ्गीतप्रेमिणश्च उपस्थिताः भूत्वा कार्यक्रमस्य सफलतायै सहयोगं कर्तुम् आहूताः।

Hindusthan Samachar / Dheeraj Maithani