Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 19 सितंबरमासः (हि.स.)।
असमस्य लोकप्रियगायकस्य सङ्गीतकारस्य च जुबीनगर्गस्य प्रथमपुण्यतिथौ शनिवासरे राज्यस्य सर्वेषु भागेषु विविधाः कार्यक्रमाः आयोजिताः तथा तस्मै भावपूर्णा श्रद्धाञ्जलिः समर्पिता। प्रशंसकैः, विद्यार्थिभिः सङ्गीतप्रेमिभिश्च तस्य गीतानि सङ्गीतपरम्परा च स्मृतानि।
नूनमाटीस्थिते असमजातीयविद्यालये ‘जुबीनदिवसः’ आचरितः। अस्मिन्नवसरे प्रायः २६०० छात्रछात्राः एकस्वरेण ‘दिया घुराई दिया’ इति गीतम् अगायन्। कार्यक्रमे जुबीनगर्गस्य पत्नी गरिमासैकियागर्गः अपि उपस्थितवती।
तत्रैव ‘जुबीनक्षेत्रम्’ जुबीनगर्गस्य गीतैः गुञ्जितम् तथा वातावरणं भावुकमभवत्। स्वप्रियकलाकाराय श्रद्धाञ्जलिं समर्पयितुं बहुसङ्ख्याकाः प्रशंसकाः तत्र समागताः। जुबीनगर्गस्य गीतानां प्रस्तुतिषु तस्य प्रशंसकैः तस्य स्मरणं कृतम्।
मङ्गलदैविद्युत्सञ्चारमाध्यममञ्चस्य वार्तापत्रक्लबस्य च संयुक्ततत्त्वावधाने ‘जुबीनदिवसस्य’ अवसरम् उद्दिश्य प्रभातफेरी अपि आयोजिता। तस्यां सहभागं कृत्वा मन्त्री नीलिमादेवी अवदत् यत् जुबीनगर्गस्य निधनानन्तरं तस्य प्रत्येकस्य गीतस्य भावः जनानां हृदयं स्पृशति।
काहिलीपारास्थिते जुबीनगर्गस्य आवासे तस्य प्रतिमा पुष्पैः अलङ्कृता। प्रथमपुण्यतिथौ जनैः ‘लुइतकण्ठः’ जुबीनगर्गः स्मृतः। ते अवदन् यत् तस्य स्वरस्य, सुरस्य सङ्गीतस्य च वैशिष्ट्यं सर्वदा जनानां मध्ये जीवितं स्थास्यति।
------------
Hindusthan Samachar / Dheeraj Maithani