Enter your Email Address to subscribe to our newsletters

उदयपुरम्, १९ सेप्टेम्बरमासः (हि.स.)। नारायणसेवासंस्थानस्य लियों का गुडा-स्थिते ‘सेवामहातीर्थ’ परिसरे शनिवासरे द्विदिवसीयः ४७तमः निःशुल्कः दिव्याङ्गानां निर्धनानां च युवकयुवतीनां सामूहिकविवाहसमारोहः अत्यन्तश्रद्धया, उल्लासेन आत्मीयतया च प्रारब्धः। वर्षाणां संघर्षस्य प्रतीक्षायाश्च अनन्तरं यदा पीतपरिधानैः सज्जिताः ५० युग्माः मञ्चे उपविष्टवन्तः, तदा सम्पूर्णे परिसरे उत्सवस्य नवीनाशायाश्च वातावरणं व्याप्तम्।
समारोहस्य विधिवत् शुभारम्भः प्रातः शुभमुहूर्ते गणपतिस्थापनया तथा ‘गृहे पधारो गजानन्दजी’ इति गणपतिवन्दन-नृत्येन अभवत्। ततः पीतपुष्पैः सुसज्जिते हाडासभागारे हल्दी-मेहन्दी-सम्बद्धाः पारम्परिकाः विधयः सम्पन्नाः।
संस्थायाः संस्थापक-अध्यक्षः पद्मश्री कैलाशः ‘मानवः’, सहसंस्थापिका कमलादेवी, अध्यक्षः प्रशान्त अग्रवालः तथा निदेशिका वन्दना-अग्रवालः च अतिथिभिः सह वरवधूनां शरीरेषु हल्दी-महावरं च अलिपन्। ढोलकवाद्यस्य तालानां पारम्परिकविवाहगीतानां च मध्ये अतिथयः परिजनाश्च उत्साहेन नृत्यं कृतवन्तः, येन सम्पूर्णं परिसरं पारिवारिकोत्सव इव जीवन्तमभवत्।
समारोहे मुख्यातिथिरूपेण भारतीयसेनायाः पूर्वकमाण्डरः बी.एल. बन्धनः आगरातः तथा अर्जेन्टिनादेशात् समागतः राजेशकञ्जानी इत्येताभ्यां सह अन्ये दानदातारः अतिथयश्च संस्थया उष्णिषम्, उपरणं स्मृतिचिह्नं च प्रदाय भावपूर्णतया अभिनन्दिताः। अस्मिन् अवसरे अतिथयः संस्थायाः नवनिर्मितभवनस्य ‘मानवतायाः विश्वम्’ इत्यस्य अवलोकनमपि कृतवन्तः तथा विभिन्नानां प्रकल्पानां विषये सूचनां प्राप्तवन्तः।
विवाहसमारोहस्य प्रथमदिवसस्य सायंकालः सांस्कृतिकसन्ध्यायै समर्पितः आसीत्। वैवाहिकगीतानां मधुरध्वनीनां मध्ये राधाकृष्णयोः रासः, रुद्रावताररूपस्य हनुमतः प्रस्तुति:, मातुः दुर्गायाः नवरूपाणि तथा अयोध्यापतेः श्रीरामस्य च आधारिताः भावपूर्णाः नृत्यनाटिकाः दर्शकान् भावविभोरान् अकुर्वन्।
संस्थाध्यक्षः प्रशान्त अग्रवालः अवदत् यत् रविवासरे प्रातः ११ वादने १५ निमेषे सर्वे ५० युग्माः वैदिकविधिविधानपूर्वकं पवित्राग्नेः समक्षं सप्तपदानि गृहीत्वा दाम्पत्यसूत्रे बन्धिष्यन्ते। संस्थायाः पक्षतः सर्वेभ्यः नवविवाहितयुग्मेभ्यः गृहस्थजीवनस्य आरम्भाय आवश्यकानि उपहारसामग्रीणि वस्तूनि च प्रदास्यन्ते।
Hindusthan Samachar / Divya Ranjan