Enter your Email Address to subscribe to our newsletters

त्रयोदशदिवसीया मादकमुक्तपञ्जाबयात्रा पञ्जाबं आम-आदमीपक्षशासनात् मुक्तं करिष्यति
फतेहगढ़साहिबम्, १९ सेप्टेम्बरमासः (हि.स.)। दिल्ली इत्यस्य मुख्यमन्त्री रेखागुप्ता अवदत् यत् आम-आदमीपक्षः पञ्जाबस्य सत्तायाम् आगमनसमये अरविन्दकेजरीवालः भगवन्तमानश्च त्रिमासाभ्यन्तरे पञ्जाबात् मादकद्रव्याणां निवारणस्य वचनं दत्तवन्तौ। एषा समय-सीमा कदाचित् त्रिमासानां, कदाचित् चतुर्णां मासानां यावत् वर्धिता, अद्यावधि षड्वारं च परिवर्तिता अस्ति। वारं वारं नूतनां तिथिं ददती एतादृशात् शासनात् मादक-द्रव्यनिवारणस्य अपेक्षां कर्तुं न शक्यते।
मुख्यमन्त्री रेखागुप्ता शनिवासरे भारतीयजनतापक्षस्य पञ्जाबप्रदेशेन आयोज्यमानायाः ‘मादकमुक्तपञ्जाब-यात्रायाः’ द्वितीययात्रां प्रस्थापयितुं पूर्वं फतेहगढ़साहिबे आयोजितां जनसभां सम्बोधयन्ती आसीत्। सा अवदत् यत् त्रयोदशदिवसीया एषा मादकमुक्त-पञ्जाबयात्रा पञ्जाबस्य आम-आदमी-पक्षशासनात् मुक्तेः यात्रा भविष्यति।
सा गुरुगोविन्दसिंहस्य कनिष्ठ-साहिब-जादानां बलिदानस्य साक्षिभूतायां ऐतिहासिकभूमौ स्थिते गुरुद्वारासाहिबे नतमस्तकाभवत् तथा पञ्जाबस्य मादकमुक्तये प्रार्थनां कृतवती। ततः स्थानीयधान्यमण्ड्याम् पञ्जाब-भाजपायाः प्रदेशाध्यक्षस्य केवलसिंह-ढिल्लों इत्यस्य, भाजपायाः राष्ट्रिय-महासचिवस्य पञ्जाब-प्रभारेण डॉ. सतीशपूनिया इत्यनेन तथा भाजपायाः राष्ट्रिय-उपाध्यक्षस्य मनप्रीत-सिंहबादलस्य उपस्थितौ यात्रां हरितध्वजं प्रदर्श्य प्रस्थापितवती।
सा अवदत् यत् केजरीवालः तस्य दलं च पूर्वं दिल्ली इत्यस्य धनस्य माध्यमेन पञ्जाबे अधिकारं प्राप्तवन्तौ, अधुना च पञ्जाबस्य जनानां परिश्रमेण अर्जितं धनं अन्येषु राज्येषु स्वेषां राजनीतिकहितानां पूर्तये व्यययतः। सा अवदत् यत् केजरीवालेन दिल्ली इत्यस्य स्वस्य कृते ‘शीशमहलम्’ निर्मापितम् आसीत्। किन्तु यदा सः दिल्लीभ्यः निष्कासितः, तदा सः पञ्जाबे ‘शीशमहल-द्वितीये’ उषितुम् आरब्धवान्। मुख्यमन्त्री रेखा प्रश्नं कृतवती यत् केजरीवालः केन अधिकारसामर्थ्येन पञ्जाबे निवसति तथा केन अधिकारेण निजविमानेन यात्रां करोति। सा अवदत् यत् पूर्वं पञ्जाबिनः कथितस्य दिल्लीप्रतिमानस्य नाम्ना भ्रान्ताः कृताः तथा पञ्जाबम् ऋणभारस्य अधः स्थापितम्। पञ्जाबस्य पञ्चलक्ष-कोटिरूप्यकाणाम् ऋणं कः परि-शोधयिष्यति, यतः केजरीवालं पञ्जाबस्य जनाः निष्कासयिष्यन्ति।
मुख्यमन्त्री रेखा अवदत् यत् त्रयोदशदिवसीया ‘मादकमुक्तपञ्जाबयात्रा’ केवलं राजनीतिककार्यक्रमः न, अपितु सामूहिकरूपेण कार्यकरणस्य आह्वानम् अस्ति। सा आरोपितवती यत् सम्पूर्णे पञ्जाबे सङ्घहिंसा, लक्षितहत्याः असुरक्षायाः भावना च प्रसृता अस्ति। सा अवदत् यत् मादकमुक्तपञ्जाबयात्रायाः त्रयोदशे दिने अस्य शासनस्य विपरीतगणना आरब्धव्या।
दिल्ली इत्यस्य मुख्यमन्त्री रेखा कार्यक्रमात् पूर्वं मादकद्रव्यैः प्रभावितैः परिवारैः सह संवादमपि कृतवती। सा अवदत् यत् एतेषां परिवाराणां पीडा केवलमेकस्य परिवारस्य पीडा न, अपितु सम्पूर्णस्य समाजस्य दुःखम् अस्ति। मातॄणां नेत्रयोः अश्रवः सन्ति, पितरः स्वसन्ततीन् मादकद्रव्याणां पाशात् बहिः आनेतुं सङ्घर्षं कुर्वन्ति तथा अनेकानां परिवाराणां सामाजिकम् आर्थिकं च जीवनम् अनेन प्रभावितम् अस्ति। मादकद्रव्याणां विरुद्धं सङ्घर्षः केवलं शासनस्य न, अपितु प्रत्येकं परिवारस्य, प्रत्येकस्य ग्रामस्य सम्पूर्णस्य समाजस्य च सङ्घर्षः अस्ति। पञ्जाबस्य युवानः मादकद्रव्येभ्यः रक्षिताः भवन्तु तथा ते शिक्षायाः, रोजगारस्य, क्रीडायाः विकासस्य च अवसरैः सह योजिताः भवन्तु इति सामूहिकी उत्तरदायित्वम् अस्ति।
केवलसिंहढिल्लों अवदत् यत् एषा यात्रा राजनैतिकलाभाय न, अपितु जनान्दोलनम् अस्ति। आम-आदमीपक्षस्य सार्धचतुर्वर्षीयशासने मादकद्रव्याणां निवारणं न जातम्। लोकेषु इयं उक्तिः प्रचलिता अस्ति यत् पिज्जावितरणं विलम्बितं भवितुम् अर्हति, किन्तु चिट्टावितरणं न विलम्बते। सः अवदत् यत् रवनीतबिट्टू-महोदयस्य उपरि अण्डानि क्षिप्त्वा, कृष्णध्वजान् प्रदर्श्य तथा अस्माकं भित्तिपत्राणि विदार्य यात्रायाः मार्गे बाधां जनयितुं प्रयत्नः क्रियते। सः अवदत् यत् यूयं यदि एकं भित्तिपत्रं विदारयिष्यथ, वयं दश भित्तिपत्राणि स्थापयिष्यामः। किन्तु एषः तरङ्गः पश्चात् न गमिष्यति। अस्मिन् कार्यक्रमे अन्येषां जनानाम् अतिरिक्तं पूर्वसांसदः अविनाशरायकन्ना, गेजाराम-वाल्मीकिः तथा दीदारसिंहभट्टी च सम्बोधितवन्तः।
Hindusthan Samachar / Divya Ranjan